________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रियां. अज्ञका / निर्तिका, निका, बहुज्ञिका, बहुज्ञका / अजिका, अजका / अनजिका, अनजका / निरजिका. निरजका / बहवजिका, बहवजका / भस्त्रग्रहणं स्त्रीपुंससाधारणवृत्तेग्रहणार्थम् / अविद्यमाना भस्वा यस्याः सा अभस्वा, सैवाल्पा अभस्त्रिका, अभस्त्रका / एवं निर्भस्त्रिका, निर्भत्रकेत्यादि / अत्र हि गौणस्य इस्वत्वे कृते समासात् स्त्रीपुंससाधारणादाबिति पूर्वेण न सिद्धयति / यदा त्वपुंस्कादाब् विधीयते तदा पूर्वेण त्रैरूप्यमेव / भस्त्रिका, भस्त्रका, भस्त्राका / न भस्त्रा अभस्वा, साल्पा चेत् अभस्त्रिका, अभत्रका, अभखाका / एवं परमभस्त्रिका, परमभस्त्रका, परमभस्त्राका / यकार-इभियका, ३भ्यका / ककार-चटकिका, चटकका / धातुत्यवर्जन किम् / सुनयिका, सुपाकिका, दाक्षिणात्यिका, इहत्यिका / आप इत्येव। कुत्सिता स्वा आत्मा आत्मीया वा सर्वादित्वादकि, स्विका। अत्रोत्तरेण नित्यमिकारः / कथं बह्वपत्यिका ? / नात्र त्यः प्रत्ययः / प्रत्ययाप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् / अथ शुष्किकेत्यत्र कथं न विकल्पः / क्तादेशस्य कस्यासिद्धत्वात् / 417 येषसूतपुत्रवृन्दारकस्य // 3 / 4 / 109 // आप इति निवृत्तम् , पृथग्योगात् / एषामन्तस्यानित्प्रत्ययावयवे ककारे आप्परे परत इकारादेशो वा स्यात् / द्विके, द्वके। एषिका, एषका / केवलयोरेवानयोर्विकल्पेनेकारः। यदा तु न द्वे न एवा न द्वके न एषका इत्यादि विग्रहे कृते विभक्तेलुपि सत्यां पुनः समासाद्विभक्तौ तामाश्रित्य त्यदायत्वं तत आप स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्तेः परो न तु कात् तदा अनेषका, अद्वके इत्यत्रेकारो न भवति / अखिकेत्यादौ तु न विभक्तेः पर आप्, किंतु कादेव / मृतिका, मूतका / पुत्रिका, पुत्रका / वृन्दारिका / वृन्दारका / द्विशब्दसाहचर्यादेषेति कृतविकारस्यैतदो निर्देशः। तेनेषेर्णकादिप्रत्ययान्तस्याविकृतस्यैतच्छब्दस्य च न भवति / इच्छतीति एपिका, एता एव एतिकाः। 418 वौ वर्तिका // 2 / 4 / 110 // वौ शकुनावभिधेये वर्तिकेतीत्वं वा निपात्यते / वर्तत इति णके / वर्तिका, वर्तका शकुनिः / वाविति किम् / वर्तिकाभागुरिर्लोकायतस्य व्याख्यात्रीत्यर्थः / 419 अस्यायत्तत्क्षिपकादीनाम् 2 / 4 / 111 // यत्तक्षिपकादिवर्जितस्य नानो योऽकारस्तस्यानित्प्रत्ययावयवे ककार आप्परे परत इकारः स्यात् / चेति निवृत्तं पृथग्योगात् / कारिका, पाचिका / अस्येति किम् / नौका / अनि