SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ 1036 हैमपञ्चपाठी. घुटः घुटी, गुल्फः गुल्फा इत्यादि / पिपीलकः पिपीलिका बल्मीककृमिः / चुलुकः चुलुका आस्यपूरणं वारि / हुडुक्कः हुडुक्कातोद्यम् / तुरुष्कः तुरुष्का सिलकः। तिन्दुकः तिन्दुकी वृक्षविशेषः // 6 // शृङ्गोऽथ लश्चभुजशाटसटाः सूपारः कीटः किटस्फटघटा वरटः किलाटः // चोटश्चपेटफटशुण्डगुडाः सशाणाः स्युरिपर्णफलगर्तरथाजमोदाः // 7 // (अव०) शुङ्गः शुङ्गा कन्दलः / अथ चान्तः / लश्चः लञ्चा उपचारः / भुजः भुजा बाहुः / शाटः शाटी परिधानम् / सटः सटा सिंहस्कन्धकेशाः / सृपाटः सृपाटी परिमाणविशेषः। किटः किटी वंशादिपुत्तलिका / स्फटः स्फटा फणः / घटः घटी कलशः / वरटः वरटा क्षुद्रजन्तुविशेषः। किलाटः किलाटी क्षीरविकारः। किलाटिकेत्यमरटीका। चोट: चोटी शाटिका / चपेटः चपेटा विस्तृतागुलिपाणितलम् / फटः फटा फणः / शुण्डः शुण्डा सुरा / गुजः गुडा हस्तिसन्नाहः / शाणः शाणा निकषः / वारिपर्णः वारिपर्णी फङ्गानामशाकम् / फणः फणा फटा / गर्तः गर्ता श्वभ्रम् / रथः रथी स्यन्दनः / अज. मोदः अजमोदा ब्रह्मकुशा // 7 // विधकूपकलम्बजित्यवर्धाः सहचरमुद्गरनालिकेरहाराः // बहुकरकसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः // 8 // (अव०) विधः विधा प्रकारः / कूपः कूपी अन्धुः / कलम्बः कलम्बी शाकविशेषः / जित्यः जित्या हलिः / अथ रान्ताः / वर्धः बर्धी चर्मरज्जुः। सहचरः सहचरी लता समूहविशेषश्च / मुद्गरः मुद्गरी लोष्टादिभेदनोपकरणम् / नालिकेरः नालिकेरी तरुविशेषः / फले तु तन्नामत्वात् क्लीबत्वम् / हारः हारा मुक्तादाम / बहुकरः बहुकरी संमार्जनी। कृसरः कसरी तिलौदनः। कुठारः कुठारी पशुः। शारः शारी आयानयीनः वराटश्चेति हर्षः। वल्लरः वल्लरी मञ्जरी। अर्थप्राधान्यान्मअरः मञ्जरीत्यपि / शफरः शफरी मत्स्यविशेषः / मसूरः मसूरी माषविशेषः / अर्थप्राधान्यान्मसुरोपि / कोलः कीला कफण्यादि / रालः राला सर्जरसः // 8 // पटोलः कम्बलो भल्लो दंशो गण्डूषवेतसौ // लालसो रभसो वर्तिवितस्तितुटयखुटिः // 9 // ( अव० ) पटोलः पटोला ओषधिविशेषः। कम्बलः कम्बली ऊर्णावस्त्रं गोगलचर्म च। भल्लः भल्लो शस्त्रभेदः। अथ शान्तः। दंशः दंशी क्षुद्रजन्तुविशेषः। अथ षान्तः। गण्डूषः गण्डूषा करजलादिमुखपूरणम् / अथ सान्ताः / वेतसः वेतसी वानीरः। लालसः लालसा तृष्णातिरेकौत्सुक्ययाच्यासु // अन्यत्र तु आश्रयलिङ्गः। रभसः सभसा पौर्वापर्याविचारः। रभसो हर्षवेगयोः। माघे तु स्त्रियाम्। 'क्रमते नभो रभसयैव' / अथेदन्ताः / अयं वर्तिरियं वर्तिर्वस्त्रस्य दशा। अयं वितस्ति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy