SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः // कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः // 3 // ( अव०) भे नक्षत्रे कनीनिकायां तारकायां च तारशब्दः स्त्रीपुंसलिङ्गः / तारस्तारा नक्षत्रं कनीनिका च / मे नक्षत्रविशेषे अश्लेषहस्तश्रवणाः श्रीपुंस: लिङ्गाः / अश्लेषः, अश्लेषा, हस्तो हस्ता, श्रवणः श्रवणा नक्षत्राणि / स्फुलिङ्गे लेशे च वाच्ये कणः स्त्रीपुंसलिङ्गः। कणः कणा स्फुलिङ्गो लेशश्च / वराटः वराटा रज्जुशस्त्रविशेषौ / अन्यत्र तु कपर्दे प्रवेतनामत्वात् पुंस्त्वमेव // 3 // कुंभः कलशे तरणिः समुद्रार्कीशुयष्टिषु / / भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः // 4 // (अव० ) कलशे वाच्ये कुम्भः पुंस्त्री / कुम्भः कुम्भी कलशः / अन्यत्र तु यथाप्राप्तम् / गुग्गुलौ बाहुलकानपुंसकत्वम् / अयमियं वा तरणिः समुद्रः अर्कः अंशुः पतितगोरूपोत्थापनी यष्टिश्च / अन्यत्र तु 'लिन्मिन्यनिण्यणिस्त्र युक्ताः' इति स्त्रीत्वमेव / भागधेयो भागधेयी राजदेयः करः / मेरुजम्ब्वां सुदर्शनशब्दः स्त्रीपुंसलिङ्गः / सुदर्शनः सुदर्शना मेरुनम्बूः। अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात्पुंस्त्वमेव // 4 // करेणुर्गजहस्तिन्योरल्पाख्यापत्यतद्धितः॥ लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः // 5 // ( अव० ) गजे हस्तिन्यां च वाच्ये करेणुः स्त्रीपुंसलिङ्गः। अयमियं वा करेणुः गजः हस्तिनी च / अलेभ्रमरस्याख्या पुंस्त्री। अयमलिः / इयमलिः। एवमली अलिनी, भृङ्गः भृङ्गी इत्यादि / देहिनामत्वात्पुंस्त्वे प्राप्ते योनिमन्नामत्वाभावाच स्त्री'सार्थ वचनम् / अपत्येऽर्थे जातस्तद्धितस्तदन्तं नाम पुंस्त्रीलिङ्गम् / अयमौ. पगवः / इयमौपगवी / एवं बैदः बैदी गायः गार्गी इत्याद्यपि / आश्रयलिङ्गत्वमपीति कश्चित् / औपगवः ना औपगवी स्त्री औपगवं कुलमित्यादि / लाजशब्दः वस्त्रसंबन्धी दशावाची च दशशब्दः स्त्रीपुंसौ तौ च बहुत्व एव प्रयोक्तन्यौ / अघञ्प्रत्ययभेदेनेहाद्याः शब्दाः श्रीपुंसलिङ्गाः। ईहः ईहा वाञ्छा उद्यमश्चेष्टा च / ऊहः ऊहा तर्कः / स्पर्धः स्पर्धा संघर्षः। इत्यादि // 5 // शुण्डिकचर्मप्रसेवको सल्लकमल्लकदृश्चिका अपि / शल्यकघुटिको पिपीलिक चुलुकहुडुक्कतुरुष्कतिन्दुकाः // 6 // ( अव० ) अथ कान्ताः / शुण्डिकः शुण्डिका सुरापणः / धर्मप्रसेवकः चर्मप्रसेवका दृतिः। सलकः सल्लको गजप्रियतरुः निर्यासविशेषश्चेत्यरुणः / मल्लकः मल्लिका दीपवाधारः / वृश्चिकः वृश्चिकी सविषः कीटः / शल्यकः शल्यको श्वावित् / घुटिकः धुटिका गुल्फः / अर्थप्राधान्यात् घुण्टिकः घुण्टिका,
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy