SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ हैमपञ्चपाठी. इत् प्राण्यङ्ग'-इति स्त्रीत्वप्राप्तौ वचनम् / अथोदन्ताः / शयातु अजगरः / यातु राक्षसः / स्वादु पयः / आशु शीघ्रम् / तुम्बरु ओषधिविशेषः / उका. रान्तत्वात् पुंस्त्वे प्राप्ते वचनम् / कसेरु कन्दविशेषःपृष्ठास्थि च / अर्थप्राधाम्यात् गाङ्गेयमपि / शलालु गन्धद्रव्यम् / आलु कन्दविशेषः। अथ व्यञ्जनान्ताः। संयत् संग्रामः। ककुत् वृषस्कन्धः। महत् राज्यं बुद्धितत्वं च / अयं पुंस्यपि / महान् प्रकृतिः। अहर्दिनम् / पृषत् बिन्दुः। पुरीतत् अन्त्रम् / पर्व दर्शप्रतिपदोः संधिः / प्रन्थिप्रस्तावयोरपि / पर्व क्लीबमाहवे च विषुवत्प्रभृतिष्वपि। रोम तनूरहम् / रोमणी इति द्विवचनम् / मन्नन्तत्वेनैव सिद्ध कर्बर्थ वचनम् / पुंस्यपि कश्चित् / भसदास्यं जघनमाश्रयस्थानम् / दकारान्तोऽयम् / जगत् विश्वम् / ललाम ध्वजादौ रम्ये च / ललामस्य तु पुनपुंसकत्वम् // 24 // // इति नपुंसकलिङ्गं समाप्तम् // // अथ स्त्रीपुंसाधिकारः॥ पुंस्त्रीलिङ्गं चतुर्दशके शकुनिरये च दुर्गतिः॥ दोमले कक्ष आकरे गञ्जो भूरुहि बाणपिप्पलौ // 1 // ( अव०) चतुर्दशके स्थाने वर्तमानः शङ्कुशब्दः स्त्रीपुंसलिङ्गः अयमियं या शकुः / 'एक दश शतं तस्मात् सहस्रमयुतं ततः परं लक्षम् / प्रयुतं कोटिमथार्बुदमब्जं खर्व निखर्व च // 1 // तस्मान्महासरोजं शकुंसरितां पतिं ततस्त्वनत्यम्। मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः // 2 // निरये वाच्ये दुर्गतिशब्दः स्त्रीपुंसलिङ्गः। अयमियं वा दुर्गतिः। भुजमूलेऽभिधेये कक्षशब्दः स्त्रीपुंसलिङ्गः। कसः कक्षा दोर्मूलम् / आकरे वाच्ये गञ्जः स्त्रीपुंसलिङ्गः। गञ्जः गञ्जा आकरः। भाण्डागारे तु पुनपुंसकत्वमसुरालये तु स्त्रीत्वं प्रतिपदपाठेनोक्तम् / भूरुहि वृक्षे वाच्ये बाणपिप्पलशब्दौ स्त्रीपुंसकौ / बाणः बाणा झिण्टी / पिप्पलः पिप्पली अश्वत्थः / वस्त्रच्छेदनोपकरणे प्रतिपदपाठात्पुनपुंसकत्वम् / जले तु तन्नामत्वानपुंसकत्वम् // 1 // नाभिः प्राण्यङ्गके प्रधिर्नमौ वचन बलिहे कुटः।। श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः // 2 // (अव० ) प्राण्यङ्गे वाच्ये नाभिशब्दः श्रीपुंसलिङ्गः। अयं नाभिः इयं नाभिः .प्राण्यङ्गविशेषः / नेमौ चक्रधारायां वाच्यायां प्रधिः। अयमियं वा प्रधिः। कचनार्थविशेषे बलिशब्दः स्त्रीपुंसलिङ्गः। बवयोरैक्येन निर्देशः। अयमियं वा बलिः उपहारः त्वम् मांससंकोचश्व जठरावयवश्च / गृहे वाच्ये कुटशब्दः। कुटः कुटी। घटे हलाङ्गे च पुंक्लीबः। श्रोणावौषधिविशेषे च कटः पुंस्त्रीलिङ्गः। कटः कटी श्रोणिः, कटः कटा औषधिः / मोहे अज्ञानविशेषे च भ्रमः पुंस्त्री। भ्रमः भ्रमी अज्ञानविशेषे संदेहे भ्रमणे च / वृन्दे सक्त्वादीनां गोले च वाच्ये पिण्डः पुंस्त्री। पिण्डः पिण्डी वृन्दं गोलकश्च // 2 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy