________________ 1028 हैमपञ्चपाठी. [ हैम(अव०) अयूपादिष्वर्थेषु यथासंख्यं युगदिष्टकटुशब्दाः क्लीवाः / युगं युग्मं कृतादि / यूपे तु पुनपुंसकम् / गोगोयुगं इत्यादौ तु गोयुगप्रत्ययान्तादेव सिद्धम् / दिष्टं दैवम् / काले तु पुंसि / कटु अकार्यम् दूषणं च / समासादन्यत्र द्वन्द्वं क्लीबम् / द्वन्द्वं युग्मम् / अर्थप्राधान्याद् इन्द्वमपि / धन्वनशब्दः स्थले क्लीबः। मरौ तु पुनपुंसकः। द्रुमं च पक्षिणं च वर्जयित्वाऽरिष्टं क्लीबम् / अरिष्टं सूतिकागृहम् मरणं अशुभम् // 6 // धर्म दानादिके तुल्यभागेऽर्ध ब्राह्मणं श्रुतौ // न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ // 7 // ( अव० ) दानादिके पुण्यस्योपाये धर्मः क्लीबः / तानि धर्माणि प्रथमान्यासन् / पुण्ये तु मान्तत्वात् पुंस्त्वम् / स्वभावे तु पुनपुंसकः। समेंऽशे वाच्येऽर्धशब्दः। अर्ध पिप्पल्याः अर्धपिप्पली। अतुल्ये भागे तु पुंस्त्वम् / केचिदाश्रयलिङ्गतामाहुः / श्रुतौ वेदविषये ब्राह्मणं नपुंसकम् / न्यायादनपेतं न्याय्यम् , तस्मिन् वाच्ये सारशब्दः / बलादौ तु पुंस्त्वम् / इभबिन्दौ वाच्ये पद्मं नपुंसकम् / अन्यत्र तु यथाप्राप्तम् / अनुशायां कामं क्लीबम् / अयमव्ययमप्यस्ति // 7 // खलं भुवि तथा लक्ष वेध्येऽहः सुदिनैकतः॥ भूमोऽसंख्यात एकार्थे पथः संख्याव्ययोत्तरः // 8 // ( अव० ) भुवि वाच्यायां क्लीबं खलम् / पिण्याके दुर्जने च पुनपुंसकः / स्थाने तु त्रिलिङ्गः / वेध्ये वाच्ये लक्षम् / व्याजे तु पुनपुंसकः / संख्यायां तु पुंस्त्रा। शोभनवाचिसुदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तोऽहन्शब्दः क्लीबः / भूम इति कृतसमासान्तो भूमिशब्दः संख्याया अन्येभ्यः परः एकार्थे कर्मधारये वर्तमानः क्लीबः / पाण्डुर्भूमिः पाण्डुभूमम् / एवमुदग्भूमम् / कृष्णभूमम् / असंख्यात इति किम् / द्वयोर्भूम्योः समाहारो विभूमम् / 'अन्यस्तु सर्वो नपुंसकः' इति नपुंसकत्वम् / ननु चेत्संख्यापूर्वस्यापि क्लीबत्वं तर्हि निषेधोऽनर्थकः / नैवम् / द्वयोर्भूम्योः क्रीत इति कृतसमासान्तादिकणि तस्य लुपि क्लीबत्वम् आश्रयलिङ्गता चेष्यते। एतच्च विशिष्टं व्यावृत्तेः फलम्। संख्यावाचिनोऽव्ययाञ्च परः कृतसमासान्तोऽयं पथिन्शब्दः पथशब्दो वा क्लीबे। द्वयोः पन्थाः द्विपथम् / यवयवो वाऽयम् // 8 // द्वन्द्वैकलाव्ययीभावौ क्रियाव्ययविशेषणे // कृत्याः क्तानाः खल बिन् भावे आ खात् खादिः समूहजः // 9 // (अव०) द्वन्द्वैकत्वं सुखदुःखम् / अव्ययीभावः दण्डादण्डि / तूष्णींगङ्गं देशः / पञ्चनदम् / पारेगङ्गमित्यादि। क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तबाचि नपुंसकम् / साधु पचति / प्राग्रमणीयम् दिग् देशः कालो वा। एवमुदग् प्रत्यगित्यादि। भावे ये विहिताः कृत्याः क्तानाः खल् जिन् तदन्तं