________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1027 कार्मुकम् / पिनाककोदण्डगाण्डीवगाण्डिवानां पुनपुंसकत्वम् / दलं किसलयम् / तालु काकुदम् / हृत् हृदयम् / वक्षः पुनपुंसकम् // 2 // हळदुःखसुखागुरुहिङ्गुरुचखचभेषजतुत्थकुसुम्भदृशाम् / मरिचास्थिशिलाभवमुक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् // 3 // ( अव० ) हलं लाङ्गलम् / दुःखं कष्टम् / सुखं शर्म। सुखादीनां गुणवृत्तेस्त्वाश्रयलिङ्गता। सुखः सुखा / अगुरु लोहम् / हिगु सहस्रवेधि / रुचं होवेरम् / त्वचं गन्धद्रव्यविशेषः / भेषजं शमनम्। औषधस्तु पुनपुंसकः / तुत्थं चक्षुष्यो द्रव्य विशेषः। कुसुम्भं वह्निशिखम् महारजतम् / कुसुंभस्तु पुनपुंसकः। अक्षि ईक्षणम् / दृग् दृष्टिः स्त्रीलिङ्गे / मरिचं वेल्हजम् / अस्थि कीकसम्। शिलाभवं शिलायाः सारः निष्यन्दः शैलेयसंज्ञम् / सृक्क ओष्ठपर्यन्तः। यकृत् दक्षिणपार्श्वे कृष्णमांसांशः। नलदं तृणविशेषः। अन्तिकं समीपम् अभ्यर्णम् अभ्याशम् / दन्त्योपान्त्ये तु बाहुलकात् पुंस्त्वम् / सिध्म किलासम् / युत् युद्धम् / युधस्तु स्त्रीत्वम् / संयतो नपुंसकत्वम् // 3 // सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् // लवणव्यञ्जनफलप्रसूनद्रवतां सभित् // 4 // ( अव० ) सौवीरादीनां लवणादीनां तु सभेदमपि क्लीबम् / वाच्यस्य समेदत्वान्नामापि सभेदम् / सौवीरं सौवीराञ्जनम् / स्थानकं योधानामालीढादिसंस्थानविशेषः / द्वारमुपायेऽपि बाहुलकात् क्लीबम् / क्लोममुदो जलाधारो हृदयस्य दक्षिणे यकृत् क्लोमं च वामे प्लीहा पुष्पसाश्चेति वैद्याः। धौतेयकं ग्रन्थिपर्णम्। तद्वाची जीवदस्तु बाहुलकात् पुंसि। असृग् रुधिरम् / लवणं तद्भेदाः-अक्षीवमाणिवन्धविडादयः। व्यञ्जनमेदाः दधिदुग्धाज्यतकादयः / गोरसस्य सान्तत्वात् पुंस्त्वम् / फलभेदा नालिकेरादयः / प्रसूनभेदाश्चम्पकादयः / अग्निसंपर्के ये द्रवन्ति विलीयन्ते ते द्रवन्तस्तेषां भेदा लोहादयः / स्वर्णवाचिनस्तु चाम्पेयस्य आरकूटवाचिनो मदनस्य तु बाहुलकात् पुंस्त्वम् / इह पृथग्रहणात् जलसंपर्काचे द्रवन्ति न तेषां परिग्रहः / तेन न मृदोऽपि परिग्रहः // 4 // पुरं सद्माङ्गयोइछत्रशीर्षयोः पुण्डरीकके // मधु द्रवे ध्रुवं शश्वतर्कयोःखपुरं घटे // 6 // __(अव०) सद्मनि अङ्गे च पुरं क्लीबम् / नगरे तु त्रिलिङ्गः। पुण्डरीकं कं च क्रमेण छत्रे शीर्षे च / द्रवति वस्तुनि मधु क्लीबम् / मधु मकरन्दः / शश्वन्नित्ये तर्क ऊहे च ध्रुवम् / अन्यत्र तु यथाप्राप्तम् / खपुरं घटे वाच्ये क्लीबम् // 5 // अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु // असं द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः // 6 //