________________ 1026 हैमपञ्चपाठी. [ हैम॥ अथ नपुंसकाधिकारः // नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् // वेध आदिन् विना सन्तं द्विस्वरं मन्नकर्तरि // 1 // (अव०) नान्तं लान्तं त्वन्तं तान्तं त्तान्तं संयुक्ता ये ररुयास्तदन्तं च नपुंसकलिङ्गं स्यात् / नान्तमजिनं चर्मेत्यादि / लान्तं-चक्रवालं समूहः / दलं शकलम् / त्वन्तं-वस्तु तत्त्वं पदार्थश्च / मस्तु दधिनिष्यन्दः / तान्तं-शीतमनुष्णम् , अद्भुतमाश्चर्यमित्यादि / त्तान्तं-भित्तं शकलम् / निमित्तं हेतुरित्यादि / त्तस्य संयुक्तस्य पृथगुपन्यासात् पूर्वेऽसंयुक्ता गृह्यन्ते / संयुक्तरान्तम्-अग्नं पुरः अधिक च / गोत्रं नाम कुलं क्षेत्रं च / शुक्रं सप्तमो धातुः / इत्यादि / संयुक्तशब्दान्तम्-श्मश्रु कूर्चमित्यादि / संयुक्तयान्तं-शरव्यं लक्ष्यं वेध्यं च / सान्नाय्यं हव्यमित्यादि / वेधस्प्रभृतीन वर्जयित्वा सकारान्तं द्विस्वरं नपुंसकम् / इदं रक्षः निशाचरः / उषः प्रभातं संध्यायां तु पुंस्त्री / तपः कृच्छ्राचरणम् / माघे पुंनपुंसकम् / रजो रेणुः / पुंसीति गौडः। जोपान्त्योऽयम् / यादो जलचरः / रोचिः शोचिश्च दीप्ती / वेध आदीनिति किम् / वेधा बुधो विष्णुर्विधिश्च / सहा हेमन्तः। नभा मेघादिः / ओका आश्रयः। ओकस्य तु कान्तत्वात् पुंस्त्वम् / पूर्वापवादो योगः। तेनाम्भःस्रोतो याद इत्यादीनां नद्यादिनामत्वेऽपि क्लीबत्वमेव / गुणवृत्तेस्त्वाश्रयलिङ्गता परत्वात् / द्विस्वरमिति अनुवर्तते / अकर्तरि विहितो यो मन् तदन्तं नाम नपुंसकम् / धाम तेजः। वर्म प्रमाणं शरीरं च / तर्म यूपानम् / वर्त्म मार्गः। अकर्तरीति किम् / ददातीति दामा। करोतीति कर्मा // 1 // धनरत्ननभोऽनहषीकतमोघुसणाङ्गणशुल्कशुभाम्बुरुहाम् // अघगूथजलांशुकदारुमनोबिलपिच्छधनुर्दलतालुहृदाम् // 2 // ( अव०) धनादीनां नाम नपुंसकम् / धननाम-द्रविणं वस्तु इत्यादि / रत्नं माणिकमित्यादि / नभो वियदित्यादि / अन्नं सिक्थं भक्तम् / हृषीकम् इन्द्रियम् अक्षम् / तमोऽवतमसम् इत्यादि / दिगम्बरस्य तु बाहुलकात् पुंस्त्वम् / घुसृणं कुंकुमः / पुंसीति वाचस्पतिः। कश्मीरजम् इत्यादि / अङ्गणं प्राङ्गणम् अजिरम् इत्यादि। शुल्कम् आरनालं तुषोदकमित्यादि / शुभं श्वःश्रेयसं कल्याणमित्यादि। शम्भावपि निःश्रेयसशब्दो बाहुलकानपुंसकः। अम्बुरुहम् अब्जम् कुशेशयमित्यादि। अम्बुरुहवाचिनां नलिनाम्बुजपद्मकमलनालीकानां पुनपुंसकत्वम् / अघं पापम् / थम् अशुचिः / जलं सलिलं कीलालं क्षीरम् / दधिसारबाणयोस्तु पुनपुंसकत्वम्। गौडस्तु घनरसस्यापि / वरुणस्य तद्वाचिनो बाहुलकात् पुंस्त्वम् / अंशुकं वस्त्रम् / दारु काष्ठम् / काष्ठान्तत्वात् पूतिकाष्ठमपि। सरलो देवदारुश्च द्रुमौ / एधस्तु घनन्तत्वेन पुंसि / समिधस्तु युक्तत्वात् स्त्रीत्वम् / मनो मानसमित्यादि / बिलं रन्ध्रमित्यादि / पिच्छं पतत्रं पत्रम् / तनूरुहगरुदर्हास्तु पुनपुंसकाः / धनुः