________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1025 काण्डी खल्ली मदी घटी गोणी खण्डोल्येषणी द्रुणी // तिलपर्णी केवली खटी नध्रीरसवत्यौ च वातली // 31 // ( अव० ) काण्डी वेदविषयो ग्रन्थः / खल्ली हस्तपादावमर्दनाख्यो रोगः / मदी कृषिवस्तुविशेषः / धटी वस्त्रखण्डम् / गोणी धान्यभाजनविशेषः / अर्थप्राधान्यात् कण्ठालापि / खण्डोली सरसी तैलमानं च / एषणी वैद्यशलाका / अर्थप्राधान्यात् नाराच्यपि / द्रुणी कर्णजलौका / तिलपर्णी रक्तचन्दनम् / पर्ण्यन्तत्वेन माषपर्णीत्याद्यपि / केवली ज्योतिःशास्त्रम् / खटी खटिनी / अर्थप्राधान्यात् कष्कटी कठिन्यामपि / नधी वध्री / रसवती महानसम् / वातली वागुरा // 31 // बाली गन्धोली काकली गोष्ठयजाजीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च / शृङ्गी कस्तूरी देहली मौर्व्यतिभ्यासन्दीक्षरेय्यः शष्कुली दद्रुपy // 32 // (अव०) वाली कर्णभूषणम् / कप्रत्यये वालिका सिकता। गन्धोली क्षुद्रजन्तुः / काकली ध्वनिविशेषः / गोष्ठी सभा संलापश्च / अजाजी जोरकः। इन्द्राणी करणविशेषः सिन्दुवारश्च / मत्स्यण्डी शर्करामेदः / अर्थप्राधान्यात् मात्स्यण्डी मीनाण्डी च। दामनी पशुरज्जुः। शिञ्जिनी ज्या। शृङ्गी चूर्णविशेषः। कस्तूरी मृगमदः। अर्थप्राधान्याद्योजनगन्धाऽपि। देहली गेहद्वाराग्रस्थली। मौर्वी ज्या। अतिभीर्वज्रज्वाला / आसन्दी वेत्रासनम् / क्षैरेयी पायसम् / शष्कुली अन्नभेदः / अथोदन्ताः। दद्रुः कुष्ठभेदः। पशुः पाङस्थि // 32 // कर्णान्दुकच्छू तनूरज्जुचञ्चू स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् // द्वा?दिवौ मुक्त्वगृचः शरद्वाश्छदिर्दरत्पामदृषदृशो नौः // 33 // ( अव० ) कर्णान्दुरुक्षिप्तिका / कच्छुः पामा / तनुः कायः / रज्जुर्गुणः / अर्थप्राधान्याद्वरत्रापि / चञ्चुः पक्षिमुखाग्रम् / स्नायुः शिरा / जुहूः स्रग्मेदः। सीमा मर्यादा / धूः शकटाङ्गम् / स्फिग् श्रुतम् / अर्वाक् अवान्तरम् / द्वार द्वारम् / द्योदिवित्येतौ स्वर्गाकाशवाचिनौ ओकारान्तवन्तौ / स्रुग्होमभाण्डम् / त्वक चर्म वल्कलं च। कल्कले चार्थप्राधान्यात् छल्लिरपि / ऋग् गायत्र्यादिः / एते त्रयोऽपि चन्ताः / शरत् ऋतुविशेषः वर्षश्च / वाः वारि / क्वचित् क्लीबत्वमपि / छर्दिन्तिः / दरत् म्लेच्छविशेषः / पामा कण्डूः / दृषत् पाषाणः / दृग् लोचनम् / नौस्तरी // 33 // // इति स्त्रीलिङ्गं समाप्तम् //