________________ 1024 हैमपञ्चपाठी. [ हैमदरिलरिर्मञ्जरिः पुञ्जिभेरी शरारिस्तुरिः पिण्डिमाढी मुषण्डिः // 27 // ( अव० ) किखिः कालस्य गोत्रविशेषः / ताडिराभरणविशेषः / कम्बिदर्विः। द्युतिः कान्तिः / शारिरक्षोपकरणम् // आतिः शरारिः / तटिः नद्यादौ जलास्फोटनस्थानन् / कोटिरग्रम् / विष्टिर्भद्रा / पटिर्गुलिका / गृष्टिानविशेषः / वीथिः पङ्क्त्यादिषु / दरिः कन्दरा / वल्लरिमायौँ एकार्थे / पुञ्जिः संहतिः / मेरिः वाद्यम् / शरारिराटिः। तुरिस्तन्तुवायोपकरणम् / पिण्डिर्निष्पीडितस्नेहपिण्डः / मादिः पत्रस्नसा / मुषण्ढिरायुधविशेषः // 27 // राटिराटिरटविः परिपाटिः फालिगालिजनिकाकिनिकानि // चारिहानिवलभि प्रधिकम्पी चुल्लिचुण्टितरयोंऽहतिशाणी // 28 // ( अव० ) राटिः कलहः / आटिः शरारिः। अटविः अरण्यम् / परिपाटिः क्रमः / फालिदलम् / गालिरवद्योद्भावनम् / जनिर्जन्म / काकिनिर्माषचतुर्भागः। कानिः संकोचः। चारिः पशुभक्ष्यम् / हानिरर्थनाशः। वलभिः पटलाधारो वंशपञ्जरः। इदन्तवात् डयां बलभी। अर्थप्राधान्यान् गोपानसी। प्रधिः रोगविशेषः। कम्पिः कम्पनम् / चुल्लिरुद्धानम् / चुण्टिः क्षुद्रवापी / तरिः नौः / अर्थप्राधान्यात् द्रोण्यपि / अंहतिर्दानम् / शाणिः शाणः // 28 // सनिः सानिमेनिमरिर्मारिरश्योषधी विद्रधिझल्लरिः पारिरभ्रिः। शिरोधिः कविः कीर्तिगन्त्रीकबर्यः कुमार्याढकी स्वेदनी हादिनीली // 29 // ( अव० ) सनिर्याश्चा / सानिर्वस्त्रभेदः। मेनिः संकल्पः / मरिर्मारिश्च मरकम् / अश्रिः कोटिः। ओषधिरौषधम् / विद्रधिः रोगविशेषः। झल्लरिधिविशेषः / अर्थप्राधान्यात् कलरिरपि / पारिस्तैलाद्याधारः। अभ्रिः खनित्रम् / शिरोधिः कन्धरा / कविः खलीनम् / कीर्तिर्यशः। अथेदन्ताः-गन्त्री शकटिका। कबरी वेणिः / कुमारी रामतरुणी / आढकी धान्यमेदः / अर्थप्राधान्यात् तुवर्यपि / स्वेदिनी कण्डूः / ह्रादिनी वज्रम् / ईली एकधारोऽसिः // 29 // हरिण्यश्मरी कर्तरीस्थग्यपटयः करीयकपद्यक्षवत्यः प्रतोली // कृपाणीकदल्यौ पलालीहसन्यौ उसी गृध्रसी घर्घरी कर्परी च // 30 // ( अव० ) हरणी स्वर्णप्रतिमा / अश्मरी मूत्रकृच्छ्रम् / कर्तिनी तर्कुः / स्थगी ताम्बूलकरङ्कः। अपटी काण्डपटः। करीरी करिदन्तमूलम् / एकपदी मार्गः। अर्थप्राधान्यात् पदविरपि / अक्षवती द्यूतम् / प्रतोली विशिखा / कृपाणिः कर्तरिः / अर्थप्राधात्कर्तर्यपि / कदली पताका / पलाली क्षोदः। हसनी अङ्गारशकटी। अर्थप्राधान्यात् हसन्त्यपि / बृसी वतिनामासनम् / मूर्धन्योपान्त्यो दन्त्योपान्तश्च / गृध्रसी ऊरुसंधौ वातरुक् / घर्घरी किंकिणी / कर्परी तुत्थाजनम् / अर्थप्राधान्याद्दर्विकापि // 30 //