SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् हैमपञ्चपाठी. 1029 नाम क्लीबम् / चैत्रेण कार्य पाक्यं कर्तव्यं करणीयं देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि। ताना इति प्रश्लेषात् आनानानटो गृह्यन्ते / क्ते चैत्रैण कृतम् / आनेति कानानशोर्ग्रहणम् / पेचानं पच्यमानं चैत्रेण / अनट् निर्वाणम् / अन-ईषत्स्थानं मैत्रेण / खल्-दुराढयंभवं मैत्रेण / निन्-समन्ताद् रावः सांराविणम् / 'भावे त्वतल्' इति त्वप्रत्ययादारभ्य ब्रह्मणस्त्वमिति त्वमभिव्याप्य ये प्रत्यया त्व-य-एयण- अञ्--अण्--अकञ्--ईय- त्वरूपास्तदन्तं नाम क्लीबम् / त्व-तदात्वम् तत्कालः / यः-सख्यं मैत्री / वणिज्यं तु स्त्री क्लीबम् / एयण-कापेयम् कपेः क्रीडादिकम् / अञ्-द्वैपम्-द्वीपिनो जातिः कर्म च / अण्-चापलम् / अकञ्आचार्यकम् , आचार्यता / ईय-होत्रीयम् / त्व-ब्रह्मत्वम् / समूहे जाता ये प्रत्यया अण्--अकञ्--ण्य--इकण्-य-ईय--ड्वण्-अञ्-एयपास्तदन्तं नाम कीबम् / अण्-भैक्षम् / अकञ्-औपगवकम् / ण्य-कदार्यम् / इकण्-कावचिकम् / य-ब्राह्मण्यम् / ईय-अश्वीयम् / ड्वण-पार्श्वम् / अञ्-शौवम् / एयञ्पौरुषेयम् / इत्यादि // 9 // गायत्र्याधण स्वार्थेऽव्यक्तमथानकर्मधारयः // तत्पुरुषो बहूनां चेच्छाया शालां विना सभा // 10 // ( अव० ) गायत्र्यादीनि छन्दोनामानि स्वार्थे योऽण् तदन्तानि क्लोवानि / गायत्र्येव गायत्रम् / एवमानुष्टुभादीन्यपि। अव्यक्तम् अव्यक्तलिङ्गवाचि क्लीबम् / किं तस्या गर्भ जातम् / यत्तत्रोत्पद्यते तदानय / इदं च शिष्टप्रयुक्तेष्वेव द्रष्टव्यम् / अधिकारोऽयं गृहतः स्थूणा इति यावत् / यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र नञ्समासं कर्मधारयं च वर्जयित्वा योऽन्यस्तत्पुरुषः स नपुंसकं भवति इति अधिकृतं वेदितव्यम् / छायान्तस्तत्पुरुषः क्लीबः / सा यदि येषां बहूनां समुदितानां संभवति / शलभानां छाया शलभच्छायम् / शरच्छायम् / बहूनामिति किम् / कुड्यस्य छाया कुड्यच्छाया / सेनाशालेत्यादिना विकल्पे प्राप्ते वचनं नित्यार्थम् / शालां मुक्त्वाऽन्यत्राथै यः सभाशब्दस्तदन्तः तत्पुरुषः क्लीबः / स्त्रोसभं दासीसभं मनुष्यसभं तत्समूह इत्यर्थः / अनकर्मधारय इत्येव / असभा / परमसभाया उत्तरपदत्वविज्ञानादिह न स्यात् / स्त्रीणां परमसभा स्त्रीपरमसभा / एवमुत्तरत्रापि // 10 // राजवर्जितराजार्थराक्षसादेः पराऽपि च // आदावुपक्रमोपज्ञे कन्थोशीरनामनि // 11 // ( अव० ) रामार्था ईश्वरादयस्तेभ्यो राजवर्जितेभ्यो राक्षसादयः पिशाचा. दयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तस्तत्पुरुषः क्लोबः / शालार्थ आरंभः / इनसभम् ईश्वरसभं नृपसभम् / पिशाचप्लभम् / रक्षःसभम् / तद्वन्दं तत्संघो वेत्यर्थः / नृपतिसभामगमदिति बाहुलकात् / राजवर्जितेति किम् / राजसभा। समूहार्थस्य भवत्येव पूर्वेण राजलभम् / राजार्थराक्षसादेरिति किम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy