________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. ___ ( अव० ) अहंपूर्विकादयो मयूरव्यंसकादिषु कृतनिपाताः स्त्रीलिङ्गाः। 'अहं. पूर्वोऽहं पूर्व इत्यहपूर्विका स्त्रियाम् / आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि / अहमहमिका तु सा स्यात्परस्परमहंकृतिः' / वर्षामघाऽकृत्तिकाः स्त्रीबहुवचनान्ताश्च / जलौक आदयोऽपि स्त्री० विकल्पेन बहुवचनान्ताश्च / कृत्तिकाऽर्थप्राधान्याद् बहुलाऽपि / समान्तत्वात् सुषमाऽपि कालभेदे परमशोभायां च // 9 // गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिका-। दूषीके अपि पादुका डिरुकया पर्यस्तिका मानिका // नीका कन्चुलिकाऽऽलुका कलिकया राका पताकान्धिका / शूकापूपलिका त्रिका चविकयोल्का पश्चिका पिण्डिका // 10 // (अव०) षडक्षरी गायत्रीमादीकृत्य षड्विंशत्यक्षरीमुकृष्टिं यावत् छन्दोजातिनामानि स्त्री० / शर्करी मेखलानद्योरपि / अक्षरनियमात्मकं छन्दः / गुरुलघुनियमात्मकं वृत्तम् / इति बहुलं वृत्तेत्यादिना न सिद्धयति / इष्टका मृद्धि कारः / बृहतिका उत्तरासङ्गः / कप्रत्ययाभावे बृहती रिङ्गिणी / संवर्तिका पद्मादीनां नवोद्भिन्नं दलम् / सर्जिका क्षारविशेषः / अर्थप्राधान्यात् सझिकापि / सुवर्चिका, स्रुघ्नी इत्यादि / दूषीका नेत्रमलम् / अर्थप्रधान्यात् दूषिका इत्यादि। पादुका उपानत् / अर्थप्राधान्यादुपानदादयोऽपि तत्पर्यायाः सर्वे / डिरुका कोष्ठिकाख्यो मृद्विकारः / पर्यस्तिका परिकरः / अर्थप्राधान्यादवसक्थिकापि / मानिका द्रोणचतुष्टयम् / नीका सारणिः / कञ्चुलिका कञ्चुकः / अल्लका धा. न्यकम् / कलिका कुड्मलम् / कलिकान्तत्वादुत्कलिकापि हेलोत्कण्ठयोः / राका कच्छूः। पताका सौभाग्यं ध्वजश्च / अर्थप्राधान्यात् पटाकावैजयन्ती. जयन्त्योऽपि / अन्धिका कैतवम् / शुका हृल्लेखा / पूपलिकाऽपूपः / काभावे पूपली। अर्थप्राधान्यात् पोली / त्रिका कूपस्यान्ते ध्यत्रं काष्ठम् / चविका श्लेमनश्चव्याख्यो भेषजः / अर्थप्राधान्यात् सुगन्धापि / उल्का ज्वाला / पश्चिका न्यासः / पिण्डिका चक्रनाभिः // 10 // ध्रुवका क्षिपका कनीनिका शम्बूका शिविका गवेधुका // कणिका केका विपादिका महिका यूका मक्षिकाष्टका // 11 // ( अव० ) ध्रुवका भाण्डविशेषः / उपलक्षणत्वात् धुवकापि / क्षिपका शत्रविशेषः / कनीनिका नेत्रतारा / शम्बूका शुक्तिः / शिबिका याप्ययानम् / गवेधुका तृणधान्यविशेषः / अर्थप्राधान्यात् गवीधुकापि / कणिका गोधूमचूर्णम् / अर्थप्राधान्यात् शुद्धसमितापि / केका मयूरध्वनिः / विपादिका पादस्फोटः / मिहिका हिमम्। यूका क्षुद्रजीवविशेषः। मक्षिकापि। अष्टका पितृदैवत्यं कर्म // 11 // कूर्चिका कूचिका टीका कोशिका केणिकोमिका / / जलौका माविका धूका कालिका दीर्घिकोष्ट्रिका // 12 //