________________ 1018 हैमपञ्चपाठी. चेतना संवित्तिः। याचेरपि बाहुलकादने याचना / एषां भावे क्लीबत्वम् / किए-संपत् / समित् एधो रणश्च / रुक, त्विट् , धुच्च कान्तिः। अः-व्यात्युक्षी व्यतिहारेण सेचनम् / अनिः-अजननिस्ते वृषल भूयात् / इञ्-कां त्वं कारिमकार्षीः सर्वा कारिमकार्षम् / णकः-भवतः शायिका-शयितुं पर्याय इत्यर्थः / क्वचिल्लक्ष्यानुसारेण तिगन्तं नाम स्त्रीलिङ्गम् / तनुतात्तन्तिरित्यादि / अल्पे ह्रस्वे चार्थे यः कप तदन्तं माम स्त्रीलिङ्गम् / अल्पः क्रयः क्रयिका / ह्रस्वः पुटः पुटिका / क्वचिदिति किम् / पुटकः विंशत्याद्या संख्या संख्येये संख्याने वर्तमाना च स्त्रीलिङ्गम् / इयं विंशतिः घटा घटानां वा / एवं त्रिंशदादयोऽपि / षष्टिविलिङ्गः। शताद्यानां पुनपुंसकत्वम् / नन्तसंख्या त्वलिङ्गा / द्वन्द्वे विंशत्याद्या संख्या शतादर्वाक् श्रीलिङ्गम् एकविंशतिर्यावन्नवनवतिः / द्वन्द्वैकत्वे इति क्लीबत्वबाधनार्थ वचनम् / सा विंशत्याद्या संख्या द्वन्द्वे इतरेतरसमासे मेये संख्येये च वर्तमाना एकत्व एव प्रयोक्तव्यां / इतरेतरार्थ वचनम् / एकविशतिघंटा घटानां वा / एकशतम् / द्विलक्षम् / द्विसहस्रम् / द्वन्द्वमेययोरिति किम् / द्वे विंशती घटानां तिस्रो वा विंशतयः / विंशत्यादेः संख्यास्थानस्यैव द्वित्ववहुत्वविवक्षायां द्विवचमबहुवचने / सा चेति प्रसिद्धसंख्यापरामर्शादिह न स्यात् / एकश्चैत्राय विंशतिमैत्रायेति एकविंशती आभ्यां दीयतामिति द्विवचनमेव // 6 // बुग्गीतिलताभिदि ध्रुवा विडनरि वारि घटीभबन्धयोः॥ शल्यध्वनिवाघभित्सु तु वेडा दुन्दुभिरक्षविन्दुषु // 7 // ( अव० ) सुग्मेदे यशभाण्डमेदे गीतिलताभिदोः शालिपर्णीमूर्वयोश्च ध्रुवाशब्दः स्त्रीलिङ्गः / मरादन्यत्र विट् / वारीति शब्दरूपं घट्यामिभबन्धनभुवां वा // शल्यभिदि वेणुशलाकायां ध्वनिभिदि भटानां सिंहनादे वाद्यभिदि च दन्तोष्ठवाद्ये श्वेडा स्त्री / अक्षबिन्दुषु पासकबिन्दुषु दुन्दुभिः स्त्री // 7 // गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ // रजौ रश्मिर्यवादि षादौ गञ्जा मुरागृहे // 8 // ( अव० ) शाखापुरं समीपस्थपुरं तत्र गृह्या अश्मन्ते चुल्यामन्तिका, रताहतौ सुरतप्रहणने कीला स्त्री। रजौ वाच्यायां रश्मिः स्त्री। इह यवादयो यवयवनेति सूत्रोक्ताः शब्दा दोषादयश्चार्था गृह्यन्ते / दुष्टो यवो यवानी / यवनानां लिपिर्यवनानी / उरु अरण्यमरण्यानी / महद्धिमं हिमानी। दोषादाविति किम् / यवः। यवनाः / धान्यविषयनामत्वात् पुंस्त्वमेव / अरण्यहिमयोस्तु प्रतिपदपाठान्नपुंसकत्वम् / सुरागृहे वाच्ये गञ्जा खी। खानौ स्त्रीपुंसलिङ्गः // 8 // अहंपूर्विकादिवर्षामघा अकृत्तिका बहौ // वा तु जलौकाप्सरसः सिकतामुमनसःसमाः // 9 //