________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1017 कर्करी, गलन्तिका च / बलाका पुंध्वजेऽपि स्त्रीत्वमेव / बलाका विसकण्टिका। कृष्णला गुञ्जा / गीर्वाक् / प्राण्यङ्गवाचि इकारान्तं नाम स्त्रीलिङ्गम् / गोधिललाटम् / कटिः / पालिः / इत्यादि / इदिति किम् / कर्णः / प्राण्यङ्गवाचीति किम् / नाभिः क्षत्रियः / प्राण्यङ्गवाचिनस्तु स्त्रीपंसत्वम / चक्रपिण्डिकायां त स्त्रीत्वम / ईकारान्तमकारान्तं चैकस्वरं स्त्रीलिङ्गम / हीः प्रोः, श्री, भ्रः, स्त्रः, दूः, जूः। एकस्वरमिति किम् / स्वयंभूर्ब्रह्मा / नीः लूरित्यादौ तु गुणवृत्तित्वादाश्रयलिङ्गता। कृत्संबन्धिनौ यावीदूतौ तदन्तं नाम स्त्रीलिङ्गम् / अनेकस्वरार्थ आरंभः / लक्ष्मीः / पपीः / इत्यादि / यवागूः / कुकूः। कच्छूः। अजूः / तनूः / इत्यादि // 4 // पात्रादिवर्जितादन्तोत्तरपदः समाहारे // द्विगुरन्नावन्तान्तो वाऽन्यस्तु वो नपुंसकः // 5 // ( अव० ) पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे स्त्री। पञ्चानां पूलानां समाहारः पञ्चपूली। पात्रादिवर्जित इति किम् / द्विपात्रम् / बिमासम् / त्रिभुवनम् / चतुर्युगम् / द्वित्रिचतुर्थ्यः परः पथः / त्रिपुरम् / इत्यादि / अदन्तेति किम् / पञ्चसमिति / त्रिगुप्ति / पञ्चकुमारि। दशकुमारि / अन्त्ययोः स्त्रीपुंसत्वमपीत्येके / उत्तरपदेति किम् / पञ्च गावः समाहृताः पञ्चगवम / एवं दशगवम / सप्तभूमम् / अत्र द्विगुरदन्तो नोत्तरपदम् / समाहार इति किम / पञ्चाम्रप्रियः / अन्नन्तमाबन्तं च यदुत्तरपदं तदन्तो द्विगुर्वा स्त्री। पञ्चराजम् / पञ्चराजी / पञ्चमालम् / पञ्चमाली। त्रिसन्ध्यं तु क्लीबम् / अन्नन्तं चाबन्तं चोत्तरपदं न द्विगुरिति द्विरन्तग्रहणम् / उक्तस्त्रीत्वादन्यो द्विगुः समाहारे वर्तमानो नपुंसकम् / तेन पात्राद्युत्तरपदस्यानदन्तोत्तरपदस्य विकल्पितस्त्रीत्वस्य च पक्षे क्लीबत्वम् // 5 // लिन्मिन्यनिण्यणिस्युक्ताः कचित्तिगल्पह्रस्वे कम् // विंशत्याद्या शताद् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः // 6 // (अव०) लित्प्रत्ययान्तं मि-नि-अनि-अणिप्रत्ययान्तं स्त्रियामुक्ताः ब्युक्ताः क्तिः, क्यप् , शः, यः, अ, अङ्, अनः, विप् , ञः, अनि:, इञ्, णकश्च इत्येतदन्तं च नाम स्त्रीलिङ्गं स्यात् / लित्-गवां समूहो गोत्रा / एवं रथकट्यातण्याजनतादयोऽपि / शुक्लस्य भावः शुक्लता। देव एव देवता / इत्यादि। मिः-नेमिः कूपस्यान्ते व्यत्रं काष्ठं चक्रधारा च / वल्मिरिन्द्रः। दल्मिः शस्त्रम्। निः-वेनिः केशरचना / अनिः-वर्तनिः मार्गः / अटनिर्धनुष्प्रान्तः। णिः-वाणिः मूल्यम् / वेणिः केशरचना प्रवाहश्च / अणिः-सरणिः पन्थाः / तरणिः संक्रमो यवागूश्च / समुद्रादौ तु स्त्रीपुंसत्वम् / क्तिः-भूत्यादयः / क्यप्-आस्या आसनम् / अट्या, व्रज्या, ईर्या च गमने / शः-क्रिया / यः-जागर्या / अ-शंसा, इच्छा / शुश्रूषा श्रवणेच्छा / अङ्-भिदा, चिदा, पूजा। अनः-वन्दना स्तुतिः। 128