________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. ान्तिः / वृष्णिः कुलविशेषः मेषश्च। पाणिः हस्तः। अविः मूषककम्बलः / ज्ञातिः स्वजनः। रालिः कलहः। कलिः अन्त्ययुगम् / अञ्जलिः पाणिपुटः। घृणिरभीशुः। अग्निः कृशानुः। वह्निः स एव / कृमिः कीटः। अर्थप्राधान्यात् क्रिमिरपि / अंह्निः पादः। अर्थप्राधान्यादतिरपि। दीदिविः ओदनम् / अर्थप्राधान्यात् कुरुश्च / ग्रन्थिः रज्ज्वादिवेष्टनबन्धः। कुक्षिर्जठरम् / दृतिश्चर्म चर्मप्रसेवकश्च / अर्दनिः अग्निः। ध्वनिः प्रतीयमानोऽर्थः। वृष्णिघृष्ण्याय॑न्तत्वात् अग्निवन्योश्च न्यन्तत्वात् अर्दनेरन्यन्तत्वात् कृमेय॑न्तत्वात् पाणिकुक्ष्यंहीणां प्राण्यङ्गवाचीदन्तत्वात् स्त्रीत्वे दीदिवेरन्ननामत्वाद्रालेश्च युन्नामत्वात् क्लीबत्वे प्राप्ते वचनम् // 16 // गिरिशिश्रुजायुकर्षो हाहाहूहूश्च नग्नहूर्गर्मुत् // पादश्मानावात्मा पाप्मस्थेमौष्मयक्ष्माणः // 17 // ( अव० ) गिरिः कन्दुकः। शिश्रुः श्रोत्रम् / जायुरौषधम् / कर्पू: करीषाग्निः। हाहाहूहूरित्यखण्डं नाम देवगायनवाचि / केचित् खण्डयन्ति / अव्ययत्वादलिङ्गाविति केचित् / गन्धर्व च हाहा हूहूरिति तु लक्ष्यम् / एकदेशविकृतस्यानन्यत्वादर्थप्राधान्याद्वा निर्देशस्य तदपि संगृहीतम् / देहिनामत्वादेव पुंस्त्वसिद्धौ विमतिज्ञापनार्थं हूहूरित्यस्य कृत इति स्त्रीत्वबाधनार्थम् / नग्नहूर्माषदलिन्यादिबीजम् / अर्थप्राधान्यान्नग्नहुरित्यपि / नग्नान् ह्वयति इति व्युत्पत्तिप्राधान्ये त्वाश्रयलिङ्गता / अथ व्यञ्जनान्ताः / गर्मुत् सुवर्णम् सरघा च / द्रवनामत्वा नपुंसकत्वे प्राप्तेऽस्य पाठः / पाद् चरणः। अदन्तोऽप्ययम् / अश्मा पाषाणः। उपलक्षणत्वाद्वेमलोऽपि / आत्मा शरीरं स्वभावश्च / पाप्मा पापं रोगश्च / स्थेमा स्थैर्यम् / इमन्नन्तत्वादेव सिद्धे द्विस्वरं मन्नकर्तरि इति क्लीबत्वबाधनार्थमस्य पाठः / ऊष्मा संतापः समृद्धिश्च / यक्ष्मा क्षयरोगः / तदन्तत्वाद्राजयक्ष्मापि / अश्मादीनामन्नन्तत्वेन क्लीबत्वे प्राप्ते वचनम् / एवं शेषेष्वपि लिङ्गेषु स्वरव्यञ्जनान्तक्रमो ज्ञेयः // 17 // // इति पुंलिङ्गं समाप्तम् // // अथ स्त्रीलिङ्गाधिकारः॥ स्त्रीलिङ्ग योनिमम्रीसेनावल्लितडिनिशाम् // वीचितन्द्राऽवटुग्रीवाजिहाशस्त्रीदयादिशाम् // 1 // ( अव० ) नामेति स्मर्यते / योनिमदादीनां नाम स्त्रीलिङ्गं भवति। पुरुषी। स्त्री / रामा / वामा / हस्तिनी / वशा / वृषी / अश्वा / मकरी / मत्सी / मयूरी इत्यादि / वम्रीनाम उपदेहिका इत्यादि / सेनानाम-चमूः, पृतना, वाहिनी, इत्यादि / वल्लिनाम-लता, प्रतानिनी, वल्लरी, इत्यादि / वल्ली / अजमोदायां तु अस्य बाहुलकात् स्त्रीत्वम् / तडिन्नाम-शंबा, चपला, चरा इत्यादि /