________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. कुलध्वजौ / जनः लोकः। परिघातनः अयोबद्धो लगुडः / फेनः डिण्डीरः / अर्थप्राधान्यादब्धिकफ इत्यपि / अथ पान्ताश्चत्वारः / पूपोऽपूपश्च गुणभेदः। सूपः मुद्गादिविकारः। सूपकारे देहिनामत्वादेव सिद्धम् / अर्थप्राधान्यात् सूद इत्यपि / पूपादीनां नपुंसकत्वे प्राप्तेऽस्य पाठः। 'कलापः संहतो बर्हे काञ्च्याम् भूषणतणयोः / पिच्छनामत्वान्नपुंसकत्वेऽस्य पाठः / अथ फान्तौ / रेफोऽवद्यम् / वर्णविशेषे तु विषयनामत्वेनैव पुंस्त्वम् / शोफःश्वयथुः। अथ बान्ताः। स्तम्बः आलानं व्रीह्यादीनां प्रकाण्डविशेषश्च / तत्र चार्थप्राधान्याद गुच्छोऽपि / नितम्बः-'स्त्रियाः पश्चात्कटौ सानौ नितम्बः कटरोधसोः' // 11 // शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः // मन्त्रामित्रौ कटमपुण्डाराः कल्लोलोल्लौ च खल्लतल्लौ // 12 // ( अव० ) शम्बः मुसलाग्रस्थो लोहमण्डलकः / अशनौ तु तन्नामत्वादेव पुंस्त्वम् / अम्बः सरकादीनाम् / अथ यान्ताः। पाञ्चजन्यो विष्णोः शंखः पोटगलश्च / तिष्यः पुष्यश्च कलियुगम् / नक्षत्रे बहुलं नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वादेव पुंस्त्वम् / सिचयो वस्त्रम् / अंशुकनामत्वेन क्लोबत्वे प्राप्तेऽस्य पाठः। निकाय्यो निवासः। अथ रान्ताः। रात्र इति कृतसमासान्तः 'संख्यातैक' इति ऋक्साम इति च रात्रिशब्दः / पुण्या रात्रिः पुण्यरात्रः / वर्षारात्रः / दोर्घरात्रः / चिररात्रः / पूर्वरात्रः / अपररात्रः / अर्धरात्रः / अहोरात्राविमौ / एकात्समाहारे च पुंक्लोबः / परवल्लिङ्गतापवादोऽस्य पाठः / वृत्रोऽन्धकारः रिपुश्च / मन्त्रः ऋगा. दिलक्षणः / अमित्रो वैरी। अरिनामत्वादेव सिद्धे संयुक्तरान्तत्त्वात् क्लीबत्वबाधनार्थ वचनम् / कटप्रः समूहः / 'पुण्ड्रो दैन्यविशेषेक्षुभेदयोरतिमुक्तके'। आरः आरकूटः / द्रवनामत्वात् क्लोबत्ने प्राप्तेऽस्य पाठः / अथ लान्ताः / कल्लोलस्तरङ्गः / अर्थप्राधान्यादुल्लोलोऽपि / उल्लः सूरणः / खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च / तल्लस्तडागः // 12 // कण्डोलपोटगलपुद्गलकालवालावेला गलो जगलहिङ्गुलगोलफालाः // स्याद्देवलो बहुलतण्डुलपत्रपालवातूलतालजडुला भृमलो निचोलः // 13 // (अव०) कण्डोलः पिटकाख्यं भाजनम् / पोटगलः काशः नडश्च / पुद्गलः परमाणुः देहश्च / कालो मृत्युः। वालोऽश्वकरिवालधिः। तुटौ तु बाहुलकात् त्रियाम् / आवेलश्चर्वितताम्बूलम्। गलः सर्जरसः / अर्थप्राधान्यात् कलकल इत्यपि। कण्ठे तु तन्नामत्वादेव पुंस्त्वम् / द्रवनामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः। जगलः पिष्टमद्यम् / हिगुलं दारदम् / गोलः सर्वतोवृत्तः बालक्रीडनकाष्टे स्त्रीप. त्राञ्जनादौ क्लोबः। यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचकः स आश्रयलिङ्गः। फालः कुशी। देवलः देवायतनम् / बहुलः कृष्णपक्षः। तण्डुलः धान्यसारः विडङ्गं च / पत्रपालः दीर्घा छुरी / वातूलः वातसमूहः। वातासहे चोन्मत्ते चाश्रयलिङ्गः। तालः गोतकालक्रियामानकरत