________________ 1012 हैमपश्चपाठी. [ हैमअङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः // वरुण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूणमलक्तकुन्तौ // 9 // ( अव० ) अङ्गुष्ठोऽङ्गुलिविशेषः / अथ डान्ता दश / गण्डः पिटकः। लगुडो लोहमयं शस्त्रम् / प्रगण्डः कूर्परांसयोर्मध्यम् / करण्डो भाण्डविशेषः / कूष्माण्डः कर्कारुः भ्रूणश्च / गुडो गोलकः। शिखण्डश्चूडा। वरण्डोऽन्तरावेदौ / रुण्डः कबन्धः। रुण्डान्तत्वाद्वारुण्डः सेकपात्रम् / पिचण्ड उदरम् / णान्तात्रयः। नाडीव्रणो रोगविशेष H / व्रणस्य पुनपुंसकत्वेन तत्पुरुषेण परवल्लिङ्गताप्राप्तौ वचनम् / गुणः पटः। भ्रूणो गर्भिणी स्त्री शिशुश्च / गुणस्यांशुकनामत्वेन नपुंसकत्वे भ्रूणस्य तु योनिमन्नामत्वेन स्त्रीत्वे प्राप्ते पाठः / अथ तान्ताः सप्त / अलक्तो यावकः। कुन्तः प्रासः। अर्थप्राधान्यात् शलपराचदीर्घायुधा भपि // 9 // पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपः / बुबुदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाधाः // 10 // (अव०) पोतः-प्रवहणं शिशुश्च / पिष्टातः पटवासकः। पृषता बिन्दवः। प्रायेण बहुवचनान्तोऽयम् / मृगवाचिनस्तु देहिनामत्वादेव पुंस्त्वम् / उत्पातः उपसर्गः / व्रातः समूहः / अथ थान्तः / 'अर्थः प्रकारे विषये चित्तकारणवस्तुषु / अभिधेयेऽपि शब्दानाम् ' / धननामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः / अथ दान्ताः षट् / कपर्दो हरजटाबन्धः। वराटवाचिनस्तु तन्नामत्वादेव सिद्धं पुंस्त्वम् / बुदबुदः जलादिसंस्थानविशेषः / गदो व्याधिः, विष्णोरनुजश्च / अगद औषधम् / मकरन्दः पुष्परसः। अर्थप्राधान्यान्मरन्द इति। जनपदो जनसमूहो विषयः करदश्च कुटुम्बी / अगदजनपदयोभैषजनामपदान्तत्वाभ्यां नपुंसकत्वे प्राप्तेऽस्य पाठः / अथ धान्ताः / 'गन्धो गन्धक आसोदे लेशे संबन्धगर्वयोः / स्कन्धः-'प्रकाण्डेऽशे नृपे स्कन्धः काये व्यूहसमूहयोः' / अगाधः विरलम् / बिलनामत्वादेव क्लीबत्वे प्राप्तेऽस्य पाठः / विरं छन्दः // 10 // अर्धसुदर्शनदेवनमहनाभिजनजनाः परिघातनफेनौ / पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ // 11 // (अव०) अर्धः खण्डम् / ग्रामाधः / अर्धः पटी / अर्धः नगरम् / समांशे तु क्लोबत्वस्य वक्ष्यमाणतया विषमांशवृत्तिरिहार्धशब्दः। अथ नान्ताः सप्त / सुदर्शनः विष्णुचक्रं शक्रपुरं च / मेरुजम्ब्वां स्त्रीपुंसलिङ्गः / देवनः अक्षः / क्रीडाविहारविजिगीषासु नान्तत्वान्नपुंसकत्वमेव / अह्न इति संख्यात '-इति 'सर्वाश' इति च कृतसामासान्तोऽहनशब्दः। संख्याताह्नः। सर्वमहः सर्वाः / एवं सायाह्नः। प्रारंभो मध्यं चाह्नः प्राणः मध्याह्नः / अपराह्नस्तु पुंक्लीवः। परवल्लिङ्गतापवादोऽह्नस्य पाठः / अभिजनः कुले ख्यातावभिजनो जन्मभूम्यां