SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. युगश्च पुंलिङ्गः / चन्द्रकान्तः / सूर्यकान्तः / अयस्कान्तः लोहाकर्षणः / ( यूपयुग्मयोरपि ) यानयुगः / शकटयुगः / यश्चासमाहारे इतरेतरयोगे द्वन्द्वोऽश्ववडवाविति स पुंसि / अश्वश्च वडवा चेमावश्ववडवौ / द्विवचनमतन्त्रम् / तेनाश्ववडवाः / अश्ववडवान् पश्य / 'अश्ववडवपूर्वापराधरोत्तराः' इति निर्देशास्वत्वम् / असमाहार इति किम् / अश्ववडवम् / द्वन्द्व इति किम् / अश्वो वडवाऽस्याश्ववडवमुन्मुग्धं कुलम् / अश्ववडवा स्त्री / द्वन्द्वस्यापरवल्लिङ्गत्वप्राप्तौ वचनम् // 6 // वाकोत्तरा नक्तकरल्लकाङ्का न्युह्वोत्तरासङ्गतरङ्गरङ्गाः॥ परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गमतङ्गमङ्गाः // 7 // (अव०) अतःपरं स्वरान्तक्रमेण शब्दा उदाहियन्ते / तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते / वाकोत्तरपदा नक्तकादयश्च शब्दाः पुंलिङ्गाः / अनूच्यत इति अनुवाकः-ऋग्यजुःसमूहात्मकं वचनम् / घअन्तत्वादेव सिद्ध नियमार्थ वचनम् , 'भाव एव पुंस्त्व' मिति / तेन वकं काष्टमित्यादौ भावादन्यत्र घनन्तस्याश्रयलिङ्गता। अनुगतो अथवा वाकोऽनेन तदनुवाक इति अन्यपदार्थत्वेऽपि पुंस्त्वार्थम् / नक्तको गलनम् / रल्लकः पक्ष्मकम्बलः। अङ्कः समीपम् / नक्तकरल्लकयोर्वस्त्रनामत्वेनाङ्कस्यान्तिकनामत्वेन क्लीबत्वे प्राप्ते वचनम् / न्युङ्खाः षडोङ्काराः / सम्यग्मनोज्ञे त्वाश्रयलिङ्गः / उत्तरासङ्गः वैकक्ष्यम् / तद्वाची अर्थप्राधान्यात् कम्बलोऽपि / तरङ्गः ऊर्मिः / रङ्गो नर्तनभूमिः / परागो धूल्यादिः। पूगः क्रमुकः संघोऽपि। अयं क्लीबोऽपीति कश्चित् / सृगो भिन्दिपालाख्यः शस्त्रविशेषोऽर्थप्राधान्याद् भिन्दि (न्द) पालोऽपि / मस्तुलिङ्गो मस्तिष्कः / कुडङ्गो वृक्षगहनम् / कालिङ्गः कालिङ्गिनी तत्फलं च / चिर्भट्यां वल्लिनामत्वादेव स्त्रीत्वम् / वल्लिनामत्वेन स्त्रीत्वे फलनामत्वेन क्लीवत्वे प्राप्ते वचनम् / तमङ्ग इन्द्रकोशः / मङ्गो धर्ना नौः शिरश्च // 7 // वेगसमुद्गावपाङ्गवीघार्घा मञ्चसपुच्छपिच्छगच्छाः // वाजोजकिलिञ्जपुञ्जमुञ्जा अवटः पट्टहठप्रकोष्ठकोष्ठाः // 8 // ( अव० ) वेगो रयः किंपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च / समुद्गः संपुटः / अपाङ्गो नेत्रान्तस्तिलकश्च / वर्गः संघातः / ओघः समूहादिः / अर्घा मूल्यं पूजाविशेषश्च / वेगवर्गरौघा_णामौणादिकगान्तानां समुद्गस्य च डान्तस्य ग्रहणम् / घअन्तत्वे तु सिद्धमेव / मञ्चो राजासनम् / पुच्छः पश्चादभागः / लाङ्घले तु पुनपुंसकः / पिच्छं लाङ्गुलम् / गच्छोऽभिमतसंख्यावसानम् / वाजः पिच्छम् / ओजो विषमसंख्या। किलिञ्जः करः। मुञ्जः शरेषीका। अवटो रन्ध्रम् / पट्टः पेषणपाषाणः पीठं च / ललाटभूषायां बाहुलकत्वात् स्त्रीत्वे पट्ठी। हठः बलात्कारः वारिपर्णी च / प्रकोष्ठः कूर्पराद्धः। कोष्ठः कुक्षिगृहयोरन्तरालम् आत्मोयश्च // 8 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy