________________ हैमपञ्चपाठी. नपुंसकत्वम् / देही / जन्तुः। जन्मी / जन्मशब्दोऽकारान्ताऽप्यस्ति / जन्तुः पुनपुंसकः / तत्प्रभेदः-ब्राह्मणः / क्षत्रियः / वैश्यः / शूद्र इत्यादि / देवः / सुरः। इत्यादि / तत्प्रभेदः-इन्द्रः / चन्द्रः इत्यादि / माननाम-तूलः / कुडवः / प्रस्थः पुंनपुंसकः / आढकस्तु त्रिलिङ्गः / द्रुमनाम-अंहिपः वनस्पतिः। विषयनाम-विषयः इन्द्रियग्राह्यो गन्धशब्दस्पर्शादिः देशश्च / तुबररावकषायकोलाहलनीलानां पुंक्लीबत्वम् / रूपस्य तु नपुंसकत्वम् / आशुगनाम-पतत्रिः / शरबाणकाण्डाः पुंनपुंसकाः / इषुत्रिलिङ्गः / धान्यनाम-व्रीहिः / स्तम्बकरिः / धान्यसोत्यशस्याना संयुक्तयान्तत्वेन नपुंसकत्वम् / माषाणू पुनपुंसकौ / आढकीप्रियंगू स्त्री। मसूरः स्त्रीपुंसः / शणं नपुंसकम् / अध्वरनाम-अध्वरः / मखः / यज्ञः / वितानवाजपेयराजसूयानां यज्ञविशेषाणां पुनपुंसकत्वम् / बर्हिःसत्रयोस्तु नपुंसकत्वम् / अग्निनाम-भास्करः, आशुशुक्षणिः / अयमण्यन्तोऽपि बाहुलकात पुंसि / मरुन्नाम-वातः / समानस्तु पुनपुंसकः // 3 // बोऽच्छदेऽहिर्वप्रे ब्रीह्यग्न्योर्हायनबर्हिषौ // मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मणीनयोः // 4 // ( अव०) छदः पर्ण पिच्छं च / ततोऽन्यस्मिन् बर्हः पुंसि / बर्हः परिवारः / तयोस्तु पुनपुंसकः / वप्रे केदारेऽहिः पुंसि / स तु पुंस्त्री / हायनबर्हिषौ बीहावग्नौ च पुंसि / वर्षरश्म्योश्च मेदे नपुंसकौ। बर्हिषोऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तक्लीबत्वबाधनार्थम् / सक्तौ धानाविकारे मस्तुः। अन्यत्र तु स्त्वन्तत्वात् क्लीबत्वम् / स्फटिकेऽच्छः / अयमव्ययमाभिमुख्येऽप्यस्ति / मणौ रत्ने इने सूर्ये क्रमेण नीलमित्रौ पुंसि / नीलान्तत्वान्महीनीलोऽपि / मित्रस्य देहिनामत्वादेव सिद्धे नियमार्थ, तेन सुहृदि संयुक्तरान्तत्वेन क्लीबत्वम् // 4 // कोणेऽस्रश्चषके कोशस्तलस्तालचपेटयोः // अनातोघे घनो भूम्नि दारमाणासुवल्वजाः // 5 // ( अव० ) कोणेऽस्रः पुंसि / कोणः अस्रः / अन्यत्रेदमस्रं रुधिरम् / संयुक्तरान्तत्वान्नपुंसकत्वम् / केशे तु नन्नामत्वादेव पुंस्त्वम् / चषके कोशः पुंसि / कोशश्चषकः / प्रत्याकारे शम्बायां च त्रिषु / भाण्डागारादौ तु पुनपुंसकः / तालो वृक्षविशेषो वितस्तिश्च तयोश्चपेटे च तलः पुंसि / तलान्तत्वात् प्रत. लोऽपि चपेटे / आतोद्यमुपलक्षणं नृत्यस्य / आतोचान्मध्यमनृत्ताच्चान्यत्र घनः पुंसि / दाराः कलत्रम् / प्राणा असवो जीवितं च / असवः प्राणाः / वल्वजा उपलाख्यस्तृणभेदः / एते पुंलिङ्गाः / भूम्नि-बहुत्व एव / क्वचिदेषामेकत्वमपि / असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् / पुंस्त्वं तु णान्तत्वादेव सिद्धम् // 5 // __ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः // यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति // 6 // ( अव० ) चन्द्रार्कनामभ्योऽयःशब्दाच्च परः कान्तो यानार्थवाचिनः परो