________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. गुत्सः। गुलुञ्छः। स्तबकस्तु पुंक्लीबः। दिननाम-घनः। सूर्याङ्कः। दण्डयामः। दिनदिवसवासराणां पुनपुंसकत्वम्। दिवाह्नोस्तु नपुंसकत्वम् / स इति समासस्याख्या पूर्वाचार्याणाम्। तन्नाम। तन्नाम-बहुव्रीहिः, अव्ययीभावः, द्वन्द्वः इत्यादि / ऋतुनाम-हेमन्तः / वसन्तशिशिरनिदाघाः पुनपुंसकाः / शरत्प्रावृड्वर्षाश्च स्त्रीलिङ्गाः / ऋतुस्तु उदन्तत्वात् पुंसि / पतग्रह आचेलकाधारस्तन्नाम / प्रतिग्रहः।। प्रतिग्राहः इत्यादि / निर्यासनाम-वृक्षादीनां रसः-गुग्गुलः / श्रीपृष्टः / श्रीवेष्टः / सर्जरसः / उषः। उलूखलं नपुंसकम्। निर्यासस्तु पुनपुंसकः। कुम्भकुन्दोलूखले तु बाहुलकानपुंसके / नाकनाम-स्वर्गः। स्वः। अव्ययम्। नाकत्रिदिवौ पुनपुंसको। दिवं त्रिविष्टपं क्लीबे / द्योदिवौ स्त्री। रसाः शृङ्गारादयस्तन्नाम-शृङ्गारहास्यकरणरौद्रवीरभयानकशान्तबीभत्सादभुता इति / वत्सलस्तु पुत्रादिस्नेहात्मा रतिमेद एव / शृङ्गारः पुंक्लीबः / गौडस्तु ' शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् / करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश' इति / कण्ठनाम-गलः / नालः। कुठारनाम-परशुः / पशुः / स्वधितिः इत्यादि / कुठारः पुंस्त्री / कोष्टनामकुशलः इत्यादि / हैमनाम-हैमो भेषजमेदः-किराततिक्तः / किरातकसंज्ञः / अरिमाम-द्विषन् / प्रत्यर्थी / रिपुः इत्यादि / वर्षनाम-वत्सः। संवत्सरः / संवदित्यव्ययमपीति कश्चित् / वर्षहायनाब्दास्तु पुंक्लीबाः / शरत्समे तु बीलिने। विषनाम-गरः / ब्रह्मसुतः / क्ष्वेडः / वत्सनाभः इत्यादि / विषकालकूटगरलहालाहलकाकोलाः पुनपुंसकाः। मधुरस्य बाहुलकात् क्लीबत्वम् / बोल औषधविशेष. स्तन्नाम-गन्धरसः / प्राणः। इत्यादि / रथनाम-पताकी / स्यन्दनः पुनपुंसकोऽ. यमिति गौडशेषः / रथः पुंस्त्री / अशनिनाम-पविः / इत्यादि / अशनिः पुंस्त्री। वज्रकुलिशौ पुंक्लीबौ / भिदुरं बाहुलकात् क्लीबम् // 2 // *वेतप्लवात्ममुरजासिकफाभ्रपङ्कमन्थविषां जलधिशेवधिदेहभाजाम् / मानद्रुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम // 3 // ( अव० ) श्वेतनाम-श्वेतः / कपर्दः / प्लवनाम-कोलः / मेलः / उडुपस्तु पुंक्लीवः / आत्मनाम-जीवः। पुद्गलः / क्षेत्रज्ञः। प्रधाने त्वाश्रयलिङ्गता / पुरुषः इत्यादि / मुरजो मर्दलस्तन्नाम-मृदङ्गः। मुरजभेदोऽपि / मुरजः / असिनामनिस्त्रिंशः / खङ्गः / ऋष्टेस्तु पुत्रीत्वम् / कफः प्लेष्मा। खेटस्तु पुंक्लीबः। अभ्रं मेघः / अभ्रस्तु पुंक्लीवः / पङ्को निषवरः / पङ्कजम्बालौ पुंक्लीबौ / मन्थः मन्थानः / त्विट् कांतिः। अंशुः / अयं रवावपि / अभीषुः / मूर्धन्योपान्त्योऽयम् / मयूखः / अयं शोभाज्वालयोरपि बाहुलकात् पुंसि / रुचित्विट्युतिदीधितयः स्त्रीलिङ्गाः। रोचिःशोचिषी तु द्विस्वरसन्तत्वात् क्लीबे / गोमरीचिप्रश्नयस्तु पुंस्त्रीलिङ्गाः। रश्मिः / अयं रजौ स्त्रियाम् / जलधिः / अर्णवः / समुद्रः / महाकच्छः / पश्चिमाशापतौ तु देहिनामत्वात् पुंसि / तत्प्रभेदनाम-क्षीरोदः लवणोदः इत्यादि / शेवधिः / निधिः। तत्प्रमेदः / 'महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ / मुकुन्दकुन्दनीलाच खर्वश्च निधयो नव' / पद्मस्य विभबिन्दौ 127