________________ हैमपञ्चपाठी. प्रच्छदश्चोत्तरपटः / छदस्य तु नपुंसकता वक्ष्यते / इत्यादि / घान्तम्-पादः / पादो वुन्धांहितुर्याशरश्मिप्रत्यन्तपर्वतादिषु / आप्लावः स्नानम् / भावः / 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु / क्रियालीलापदार्थेषु विभूतिबन्धजन्तुषु' // अनुबन्धः प्रकृत्यादेरनुयोगी। दासंज्ञकाद्धातोर्यः किः प्रत्ययो विहितस्तदन्तं नाम पुंलिङ्गम् / आदिः प्राथम्यम् / व्याधिः रोगः / उपाधिर्धर्मचिन्ता कैतवं कुटुम्बव्यापृतौ विशेषणं च / उपधिः कपटम् / उपनिधिः न्यासः / प्रतिनिधिः प्रतिबिम्बम् / संधिः पुमान् सुरङ्गादौ / परिधिः परिवेषः। अवधिस्त्ववधानादौ / प्रणिधिः प्रार्थनमवधानं चरश्च / समाधिः प्रतिसमाधानं नियमो मौनं चित्तैकाग्यं च / विधिः कालः कल्पो ब्रह्मा विधिवाक्यं विधानं दैवं प्रकारश्च / वालधिः पुच्छम् / शब्दधिः कर्णः। जलधिः समुद्रः / अन्तार्द्धय॑वधा / प्रधेस्तु नेमौ स्त्रीपुंसत्वं वक्ष्यते रोगविशेष स्त्रीत्वं, शिरोधेस्तु स्त्रीत्वम् , इषुधेस्तु स्त्रीपुंसत्वं वक्ष्यते / इत्यादि / भावे खः / भावेऽर्थे यः खो विहितस्तदन्तं नाम पुंलिङ्गम् / आशितस्य भवन आशितंभवो .वर्तते / तृप्तिरित्यर्थः / भाव इति किम् / आशितो भवत्यनया आशितंभवा पञ्चपूली / अकर्तरि च कः स्यात् / भावे कर्तृवर्जिते च कारके यः कः प्रत्ययस्तदन्तं नाम पुंलिङ्गम् / आखूनामुत्थानमाखूत्थः, विहन्यतेऽनेनास्मिन् वा विघ्न अन्तरायः इत्यादि। अकर्तरि चेति किम् / जानातीति ज्ञा परिषद् // 1 // हस्तस्तनौष्ठनखदन्तकपोलगुल्फकेशान्धुगुच्छदिनसर्तुपतद्ग्रहाणाम् / निर्यासनाकरसकण्ठकुठारकोष्ठहैमारिवर्षविषबोलरथाशनीनाम् // 2 // ( अव० ) हस्तादीनां नाम जलध्यादीनां तु सभिदां सप्रमेदानामपि पुंलिङ्गं भवति / हस्तनाम-पञ्चशाखः / करः / शयः / अयं शय्यायामपि यान्तत्वात् पुंसि / हस्तस्य तु पुनपुंसकत्वम् / स्तननाम-स्तनः, पयोधरः, कुचः, वक्षोजः इत्यादि / ओष्ठनाम-ओष्ठः, अधरः, दन्तच्छदः इत्यादि / नखनामकरजः, कररुहः, मदनाङ्कुशः इत्यादि। नखः पुंक्लीबः। नखरस्तु त्रिलिङ्गः। दन्तनाम-दन्तः / दशनः / अयं रुद्रटेन क्लीबेऽपि निबद्धः-'दशनानि च कुन्दकलिकाः स्युः ' इति तश्चिन्त्यम् / द्विजः / रदः। रदनः इत्यादि / कपोलनामकपोलः / गण्डः। गल्लः इत्यादि। गुल्फनाम-गुल्फः। गुटुः / प्रपदः / आप्रपदः। खुरकः / निस्तोदः / पादशीर्षः इत्यादि / हस्तिगुल्फस्तु प्रौहः। घुटिकघुण्टिघुण्टगुल्फास्तु स्त्रीपुंसलिङ्गा वक्ष्यन्ते / केशनाम-केशः / शिरोजः। शिरोरुहः / चिकुरः / चिहुरः / कचः-अयं बाहुलकाद् व्रणेऽपि पुंसि / गुरोः पुत्रे तु देहि नामत्वात्सिद्धम् / इभ्यां तु योनिमत्वात्स्त्रीत्वम् / अस्रः / वेल्लितानः इत्यादि / वृजिनश्च / यद्गौडः / 'वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु'। कुन्तलश्च / 'कुन्तलाः स्युर्जनपदो हलो वालश्च कुन्तलः' / हले बाहुलकात् पुंसि। वालः पुंनपुंसको वक्ष्यते / तद्विशेषोऽपि केशः / कुरलः अलकः। अन्धुः कूपस्तन्नाम-अन्धुः। ह्रहिः। प्रहिः इत्यादि / कूपस्तु स्त्रीपुंसलिङ्गः। गुच्छनाम-गुच्छः।