________________ 48 * वामध्वजकृता सृङ्केतटीका पुनरपि सिद्धसाधनतापनोदार्थमतिरिक्तहेत्वधीनेति / न चात्रापि सिद्धसाधनं विवादनिवृत्तिप्रसङ्गात् / न ह्येतदतिरिक्तं परतस्त्वमाद्रियामहे / न च ज्ञानहेत्वतिरिक्तहेत्वधीनत्वे घटादिवदज्ञानत्वप्रसङ्गपुरस्कृतज्ञानत्वानुमितज्ञानहेतौ तदतिरिक्तहेतुत्वं बाधितमिति वाच्यम् / ज्ञानहेत्वनुवृत्तावेवातिरिक्तहेतुप्रवेशे प्रमोत्पद्यत इति साध्यस्य विवक्षितत्वान्न तु तद्व्यावृत्तौ येन बाधकावकाशः / ननु किं ज्ञानशब्देन प्रमा विवक्षिता अप्रमा वा ज्ञानमात्रं वा ? नान्तिमः / प्रमा-अप्रमाव्यतिरिक्तज्ञानानभ्युपगमेन तद्धेतोरनिरूपितंणात(रनिरूपणात्) / न प्रथमो बाधात् / न हि प्रमा प्रमारूपज्ञानहेत्वतिरिक्तहेत्वधीनेति नैयायिकानामभ्युपगमः / प्रमा हि प्रमाहेत्वधीना न तदतिरिक्तहेत्वधीनेति सर्वजनसिद्धम् / [43B] न द्वितीयो बाधात् सिद्धसाधनाच्च / अप्रमाहेत्वनुवृत्तौ तदतिरिक्तानुप्रवेशस्यासंभावितत्वेन बाधात. संभवे चात्र प्रमाविशेषः प्रमाणः स्यात् / ज्ञानाज्ञानहेत्वनुवृत्तादिनातिरिक्तहेत्वनप्रवेशाद् ज्ञानविशेषवदिति / न चैवमेवास्तीति वाच्यम् / तस्याः सत्यप्रमापरिहारेण प्रमा न भवेत् / अन्यथा ज्ञानपरिहारेणापि प्रमा स्यात् / न चेदं दृष्टमिष्टं वेति / अप्रमाहेतुनिवृत्तौ तु तदतिरिक्तदोषाभावाभ्युपगमात् सिद्धसाधनम् / मैवं ज्ञानशब्देन न प्रमा अप्रमा वा विवक्षिता येन तत्पक्षदोषावकाशः / किं नु ज्ञानमात्रण ? ननु तदपि नास्तीयुक्तम् / मैवमस्ति तावदुभयाभिमतज्ञानत्वाभिव्यञ्जकत्वाभावकार्यप्रवणव्यक्तिस्तयोनि(नि)यमान्न कारणमपि सामान्यतो निरूपितमस्ति तदपेक्षयैव विवादः / अन्यथा विवादस्याप्यनुपपत्तेः / सामान्यानभ्युपगमे च ज्ञा[न] विशेष: प्रमा अप्रमा वेति सामान्यविशेषभावानुपपत्तेः / न हि वृक्षानभ्युपगमे वृक्षशिंशपयोः सामान्यविशेषभावो लोके इत्याशयेनोक्तम् - ज्ञानहेत्विति / धर्मिसाध्यधर्मयुक्ता वाकाङ्क्षा / क्रमेण साधनधर्ममाह - कार्यत्व इति / ननु तद्विशेषो ज्ञानविशेषः / अत्र किम् ? ज्ञानं च विशेष: च? अथ ज्ञानस्य विशेषः ? द्वितीयेऽपि किं ज्ञानत्वस्याज्ञानत्वस्य वा ? तत्र प्रथमेऽनैकान्तः, ज्ञानस्य ज्ञानहेत्वतिरिक्तहेतुजन्यत्वस्वीकारात् / द्वितीयेऽप्येवमेव / तृतीये तु किं प्रमात्वं वा उभयवर्तमानोऽन्यो वा ? नाद्यः, असाधारणत्वात् / न द्वितीयः, असिद्धेः / न तृतीयो ज्ञानत्वात् विशेषस्योभयगामिनो उपलब्धिबाधितत्वेनासिद्धेरिति / नानवबोधात् / [44A] ज्ञानव्यक्तिविशेषो ज्ञानत्वसामान्यापेक्षयाऽनुभवत्वं तदालीढत्वं ज्ञानविशेषत्वमिति नोक्तदोषावकाश इत्यर्थः / एवमपीश्वरज्ञानमुक्तसाधनधर्मवदिति तद् व्यवच्छदार्थं कार्यत्वे सतीति सर्वं सुस्थम् / एतेन प्रमा परतो ज्ञायते इत्यस्याप्ययमेवार्थ इति मन्तव्यम् / इदमेव परतस्त्वदृष्टान्तेऽप्युभयसिद्धमित्याशयवान् दृष्टान्तमाह - अप्रमावदिति / ग्रन्थत्वाद् न्यूनत्वमदोषः, प्रयोगकाले च पञ्चावयववाक्यं विधेयम् / यत्तु स्मृत्यादिभिरनेकान्त इति व्युत्पादितं, कथमनेकान्तमिति न बुद्ध्यामहे / यदि स्मृतिज्ञा(आ)नमात्रहेतोरेवा(वो)त्पद्यते तदा विवेचितहेतोः स्मृतावभावान्न विपक्षसंसर्ग इति / अथ ज्ञानहेत्वतिरिक्तहेतुसंस्कारजन्या, तदापि सपक्षत्वाद् विवेचितहेतुत्वसंभवेऽपि नोक्तदोष इति परिभावनीयं सूचि(रि)भिरिति / तस्माग्नि(नि)रस्तसमस्तक्षुद्रोपद्रवसाधनं विवेचकानां चेतश्चमत्कारि / अविवेचकानां पुनरसत्प्रलापा उपेक्षणीयाः / विपक्षे बाधकमाह - यदि त्विति / ज्ञानमात्रहेतुः प्रमाहेतुस्तदा ज्ञानवदप्रमा भवेत् प्रमेति बाधकम् / ज्ञानहेतुमात्रा(त्रा)धीनत्वेन प्रमात्वं व्याप्तं कथं तदभावे भवेत्, अतिरिक्तसंभवमात्रार्थभावादिति / नेदं बाधकम् / तथा च विपक्षे बाधकाभावात् प्रतिबन्धसिद्धिरिति मन्वानः शङ्कते - ज्ञानेति / अनयैव रीत्या प्रमाऽपि परत इति मन्वान: परिहरति - एवमिति / अप्रमाप्रमयोर्दोषतदभावानुविधाननियमस्य तुल्यत्वात् विवेचनवैचित्र्यं क्वोपयुज्यत इत्यर्थः / एवं परतस्त्वे व्युत्पादितेऽपि यदि कश्चिदाह - [44B] ज्ञानहेत्वतिरिक्तो भावभूतो नास्तीति न परतस्त्वम्, तथारसिद्धसाधनेनमिति(तथाऽसिद्धसाधनमिति) तदा तं प्रति वक्तव्यम् - दोषातिरिक्तोऽधिको नेष्यत इति न परतस्त्वं प्रमाया आपा(आया)ति यद्यपि तथापि