SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 47 * न्यायकुसुमाञ्जलि स्तबकः 2 स्वतस्त्वान्नोपदेशसिद्धिरिति तात्पर्यम् / उपलक्षणं चैतद् धर्मसम्प्रदाय इति / तृणादिकाय(य)सम्प्रदायोऽप्यस्मदादिभिरेवादृष्टद्वारा शक्यसम्पादन इत्यपि द्रष्टव्या(व्यम्) / नित्यनिर्दोषवेदद्वारक इत्युपलक्षण[म्] अस्मदाद्यदृष्टद्वारक इत्यपि मन्तव्यम् / अनित्यत्वेऽपि वेदानां नेश्वरपूर्वकत्वं / किं तर्हि / तदितरानित्यसर्वज्ञपूर्वकत्वमिति सर्वं सुस्थमित्याशयवान् पक्षान्तरमाह - योगेति / योगेन / योगश्चित्तवृत्तिनिरोधः, तत्कर्मभिरहिंसादिभिर्यमैः, शौच-सन्तोष-तपः-स्वाध्यायादिभिर्नियमैर्य सिद्धाः सर्वज्ञास्तत्त्वोपदेष्टारः करिश्चेत्यर्थः / भेवेदेवं यदि स्वतः प्रामाण्यम् अचेतनानां स्वतः प्रवृत्तिश्च स्यात्, नोभयमित्याशयवान् सिद्धान्तमाह - अत्रोच्यत इति / प्रमाया इत्यस्मदादिप्रमाया इत्यर्थः / प्रमायाः सामान्येन [42B] पारतन्त्र्यप्रतिपादनेनाक्षजप्रमाया अपि पारतन्त्र्यं सिद्धं भवति इति मत्वे(त्वा) स्थानेन प्रमात्वस्य पारतन्त्र्यमुपक्रान्तं वेदिव्यम् / अन्यथा प्रत्यक्षादिप्रमायाः पारतन्त्र्यव्युत्पादनमत्र कृतोपयोगि स्यात् / नन्वस्मिदादिप्रत्यक्षप्रमायाः पारतन्त्र्येऽपि नेश्वरसिद्धिस्तदन्तरेणैवादुष्टचक्षुरादिजन्यत्वात् / प्रवृत्तिसामर्थ्यादिना च ज्ञाये(य)मानत्वात् / वात्य(क्य)जप्रमायाः पुनर्वक्तृयथार्थज्ञानाद्धां(ज्ज्ञा)नोत्पत्तिकत्वादाप्तप्रणीतवाक्यजत्वेन ज्ञायमानत्वाद् चेतनपुरुषसंभवेनेश्वरसिद्धिरिति प्रकृतत्वादिति / अथवा प्रमायाः वेदवात्म(क्य)जप्रमायाः परतन्त्रत्वं पराधीनत्वं लौकिकवात्म(क्य)जप्रमावदिति [बोद्] धव्यं / उपलक्षणं चैतत् प्रमाया इति / तृणादिकार्यस्यापि परतन्त्रकर्तृत्वं धात(तृ)त्वनि(मि)त्यपि बोद्धव्यम् / न चास्मदादीनां क्षित्यादिकर्तृत्वं संभवति / उपादाननाशविज्ञत्वेऽपि प्रकृतकार्योपादाना[न]भिज्ञत्वमिति कर्तृविशेषसिद्धिरिति / ननु परतः प्रामाण्येऽपि वेदानां नित्यत्वेऽपि कञभावेऽपि न(म)हाजनपरिग्रहात् प्रामाण्यमवधार्यम्, तदुपदिष्टेष्टापूर्तसाधने प्रचुरतरवित्तव्ययायाससाध्येऽपि प्रेक्षावत्प्रवृत्तिरुपपद्यत इति परमात्म]नोऽभव्यमुन्मूलयन्नाह - सर्गेति / उत्पत्तिविनाशसंभवाद् वेदस्य महाजनानां च, तथा च कस्य केन परिग्रह इत्यर्थः / ननु पौरुषेयत्वेऽपि वेदानामनित्यसर्वज्ञपुरुषपूर्वकत्वमस्तु, तथा च नेश्वरसिद्धिरिति हृदि निधायाह - तदन्यस्मिन्निति / ततो महेश्वरादन्यस्मिननित्यसर्वज्ञ इत्यर्थः / न च बहुवित्तव्ययाया]ससाध्यामुष्मिकैकफलज्योतिष्टोमादिषु प्रेक्षावतः प्रवर्तन्त इति युक्तम् / अनाश्वासात् / अनाश्वासश्च [43A] तेषामनित्यचेतनादित्वेन दृष्टनिखिलानादिविविधसाधनवशतया विपर्यासविप्रलिप्साशङ्काकलङ्कितत्वेनाप्तत्वानिश्चयादिति / क्षित्यादिकार्यस्याप्युत्पादनाशसंभवादन्येन कर्तुमशक्यत्वाच्च न विधातुः प्रकृतवेदकार्यकर्तुर्महेश्वरस्यासंभव इत्यर्थः / 41. तथाहि / प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् / यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव भवेत् / अस्ति हि तत्र ज्ञानहेतुः / अन्यथा ज्ञानमपि सा न स्यात् / ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत् / एवं तर्हि दोषाभावमधिकमासाद्य प्रमापि जायेत नियमेन तदपेक्षणात् / अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत् / भवेदप्येवम्, यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् / विशेषादर्शनादेरभावस्यापि दोषत्वात् / कथमन्यथा ततः संशयविपर्ययौ / ततस्तदभावो भाव एवेति कथं स नेष्यते / ___41. संग्रहवाक्यं विवृण्वन् विप्रतिपन्नं प्रति प्रमाणतः परतः प्रामाण्यं साधयति - तथाहीति / प्रमेति धर्मनिर्देशः, स्वतस्त्वपरतस्त्वविवादाध्यासिता प्रमा धर्मित्वेन इष्टव्या तेन नाश्रयासिद्धिः / प्रसिद्धसिसाधयिषितधर्मप्रदर्शनेनाप्रसिद्धविशेषणत्वमपाकरोति - ज्ञानेति / हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्धसाधनं स्यादतो ज्ञानहेत्वतिरिक्तहेत्वधीनेति साध्ये अतिरिक्तस्यावर्जनीयतया अन्यप्रयुक्ततया वा सनि(नि)धिर्न हेतुतयेति
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy