________________ 7. न्यायकुसुमाञ्जलिः स्तबकः 1 7. स्वपक्ष... [अकस्मा] देवेति / स्वपक्षसाधकप्रयोगश्च - कादाचित्को भावो निर्हेतुकः, भावत्वात्, सदातनभाववत् / सत्प्रतिपक्षत्वं तावत् ततः परिहरति - नेति / भवतीति सत्तावचन.... / तथा च हेत्वभावे सत्त्वम् / अथ भवतीति उत्पत्तिवाची / तत्र नञसम्बधे(न्धे) भवननिषेधः / अथ हेतोभूतिनिषेधाद् विशेषनिषेधस्य च शेषाभ्यनुज्ञाविषयत्वादहेतुता.... च कार्यस्वरूपमवस्तु च / तदा स्वानुपाख्यविधिः / अथाव्युत्पन्न एवायमश्वकर्णादिशब्दवत् तदा स्वभाव[त एव भवति] / एवमकस्माद् भवती[ति] वचनेनाभिमतम् / सर्वत्र परीहारो नैवमवधेरिति / नियतावधिसम्बन्धित्वेनैव प्रत्यक्षम् / उपलभ्यमानत्वादित्यभिप्रायः / नियतावधेविवादपदस्य कादाचित्कस्य वा तर्काबाधितप्रत्यक्षादिना प्रतीयमानत्वाद् नोक्तदोष इति समुदायार्थः / अमुमेवार्थं विपक्षे अनिष्टप्रदर्शनमुखेन विवृणोति - हेतुप्रतिषेध इति / भवनस्य सत्त्वस्याविशेषात् सदातनत्वप्रसङ्गात् / अनेन सदातनत्वं(त्व)प्रसङ्गः सदागतिसंत्रासतिरस्कृतविपरीतांशकप्रमाणमुक्तमिति दर्शयति / न हि मध्यवत् प्राक् पश्चाद् वा भवनमीक्षामहे / द्वितीयेऽप्यनिष्टमाह - भवन[9A]प्रतिषेध इति / भवनस्योत्पत्तेः प्रतिषेध इत्यर्थः / अभा(भ)वनाविशेषादित्यनेनापि सदातन्न(तनत्व)-असत्त्वप्रसङ्गमुखेन तिरस्कृतशङ्काहङ्कारो बाधः प्रदर्शितः / न हि प्राक् पश्चादिव मध्येऽप्यभवनमीक्षन्ते लौकिकपरीक्षका इत्यर्थः / तृतीयं पूर्वोक्तार्थप्रदर्शनेन निराकरोति - उत्पत्तेरिति / न यात्मन एव कश्चित् प्रभुः किन्तु अन्योन्यस्येति लौकिकव्यवस्था / नाप्यसत एव प्रभुत्वमित्यपि लौकिकम् / तथात्वे वा प्रागादिकालेऽपि सत्त्वप्रसङ्गः / न चैवमेवेति वाच्यम् / इदानीमिव तदानीमप्युपल[म्] भस्य दुर्वारत्वापत्तेः / न चास्त्येवोपलम्भ इति वाच्यम् / अनुपलम्भस्योभयवादिसिद्धत्वात् / ननु यदेव कार्यं तदेव कारणमस्तु को दोषः / न चैवंसति अस्माकमनिष्टं भवतां चेष्टं किञ्चित् सिध्यति / अत आह - पौर्वेति / लोकसिद्ध इति शेषः / न हि पटसिद्धये पटमेवोपाददाना: किन्तु तत्पूर्वस्थिततन्तून् / अनुभूयन्ते तत्सिद्धये चास...दिलोकव्यवस्थेत्यर्थः / न च तन्तुपटयोरैक्यमित्याह- न चैकमिति / तत्त्वस्य पूर्वापरभावस्येत्यर्थः / चतुर्थकल्पमाशङ्कानिष्टप्रदर्शनेन निराकरोति / अनुपाख्यस्येति / न किञ्चिद्रूपस्येत्यर्थः / सदातनत्वप्रसङ्गोन्मूलित[विपरीतशङ्का] प्रत्यक्षपरिदृश्यमानकादाचित्कत्वमभिमतमुपस्थापयतीत्यर्थः / 8. स्यादेतत् / नाकस्मादिति कारणनिषेधमात्रं वा, भवनप्रतिषेधो वा, स्वात्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रूमः / न / निरवधित्वे अनियतावधिकत्वे वा कदाचित्कत्वव्याघातात् / न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति / सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते / अस्तु प्रागभाव एवावधिरिति चेत् न / अन्येषामपि तत्काले सत्त्वात् / अन्यथा तस्यैव निरूपणानुपपत्तेः / तथा च न तदेकावधित्वम्, अविशेषात् / इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात् / सन्तु ये केचिदवधयः, न तु तेऽपेक्ष्यन्ते इति स्वभावार्थ इति चेत् / नापेक्ष्यन्ते इति कोऽर्थः ? किं न नियताः ? आहोस्विन्नियता अप्यनुपकारकाः ? प्रथमे धूमो दहनवद् गर्दभमप्यवधीकुर्यात्, नियामकाभावात् / 8. अथत्यत्र(अथास्त्यत्र) एवायमकस्मादिति पञ्चमं पक्षमाशङ्कते [9B] / अभिधित्सितमिति प्रत्येकं बोद्धव्यम् / त[त्] किं ता(ए)नि(भि)मतमित्यत आह - अपि त्विति / नियतदेशवदित्यहेतुकत्वे संप्रतिपन्नो दृष्टान्तः / अयमर्थः / यथाह्याकाशादेरापरमाण्वादेश्चाहेतुकत्वेऽप्यशेषदेशनियतदेशव्यापिता तथा नियत