________________ 188 * वामध्वजकृता सृङ्केतटीका यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः / इति / यज्ञायाचरतः कर्म समग्रं प्रविलीयते / इत्यादि / अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् / तमिमं ज्योतिष्टोमादिभिरिष्टैः प्रासादादिना पूर्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषादिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति / तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् / यत्रेदं गीयते - मन्मना भव भद्भक्तो मद्याजी मां नमस्कुरु / मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः // भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् / सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति // इति // 164. कार्यैकव्यङ्ग्याया इति सामग्या अभावो न भावयोग्यानुपलम्भेन निरूपणीयः दृश्यकारणसमुदायरूपाया असामग्र्याः ग्रहणयोग्यत्वासिद्धेः / अथ म[तं] कार्यव्यङ्ग्या सामग्री, अतस्तदभावः कार्याभावादेव निरूप्यते, तत्कार्यमप्यस्याः प्रत्यक्षज्ञानं, तच्च पुरुषान्तरसमवेतमयोग्यमिति तदभावो नानुपलम्भेन शक्यते ज्ञातुमिति, तदभावादपि न सामग्र्या भावनिरूपणमिति सामग्रीविरहो सिद्धः / ननु मा सैत्सीतानुपलब्धिकारकः सामग्रीविरहः, इन्द्रियत्वा[द्धि निरूप]कस्तावत्य(त्ये)वमात्मग्राहकत्वाभावः सेत्स्यति / न च प्रकृष्टेन्द्रियतयाऽविषयेऽपि प्रवृत्तिः संभावनीया रूपेऽपि श्रोत्रवृत्तिप्रसङ्गात् / यथोक्तम् - [154B] यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् / दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता // इति // [श्लोकवा० चोदनासूत्र श्लोक 116] शेषम् / एतेनेति / 'परमाण्वादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात् घटवत्' इत्यस्मादप्यनुमानाद् योगी सिद्ध्यतीत्यर्थः / प्रासादादिनेत्यादिग्रहणात् परिखावलयादिः / अनशनादिनेत्यादिग्रहणाज्जलादि / आसनप्राणायामादिनेत्यादिग्रहणादत्र प्रत्याहारधारणाध्यानादिः / अहिंसादिभिरित्यत्रास्तेयबह्मचर्यादिः / संतोषादिभिरित्यत्र शौचतपःस्वाध्यायादिः / किमर्थमित्याह - तस्मिन् ज्ञाते इति युक्त्येति / अनिन्द्रियदेशेन नः संयोगेन / 165. इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमादधासि हृदये ते शैलसाराशयाः / किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक, त्वयैव कृपया ते भावनीया नराः // 18 // अस्माकं तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयीत्यद्धाऽऽनन्दनिधे / तथापि तरलं नाद्यापि सन्तप्यते / तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातना // 19 //