SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 187 * न्यायकुसुमाञ्जलि स्तबकः 5 अन्यथाप्युपि(प)पन्नत्वादियं प्रवर्तनोदिता' / न शक्ता कर्तृमूलाघ(य) प्राक्ते [च] स्मरणं स्थितम् // इति परोक्तं हृदि निधाय - न च [ते] प्रवचनमात्रनिबन्धना इत्याह / 'दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता' इत्याशङ्क्य समाधिमारभते - अपि चेति प्रागेवेति / अनुभवत्वस्याबाधितबुद्धिविषयत्वादित्यर्थः / न च सम्भवतीत्यपीति / स्मृतावेवानुभवत्वारोप इत्यनुषञ्जनीयम् / कुतो न सम्भवतीत्यत आह - न हीति / अतीन्द्रियदेशे मनसो योगेन / सुबोधमितरत् / [154A] यदुक्तमुपासनैव क्रियते / श्रवणा[न]न्तरस्मेतेति(मननमिति) / तदियता प्रबन्धेन सकलवादिमतनिरसनेन निष्पाद्य तत्पुरत्फलं) कथयितुमर्थान्तरमुपोद्यते काठे]ति / स एष भगवानित्यादिना / तत्र प्रमाणमाह - प्रमेयत्वादेरिति / आदिग्रहणादभिधेयत्वसत्त्वद्रव्यत्वादय उद्योतकराचार्यवचनमनुसृत्य वक्तव्याः / ___164. ननु तत्सामग्रीरहितः कथं द्रष्टव्यः / सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न सम्भवति / चक्षरादेनियतविषयत्वात् / मनसो बहिरस्वातन्त्र्यात / तदक्तम 'हेत्वभावे फलाभावात्' इत्यादि / न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धमशक्यत्वात् / अपि च दृश्यते तावद् बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षात्कारः स्वप्ने / न च स्मृतिरेवासौ पटीयसी / स्मरामि स्मृतं वेति स्वप्नानुसन्धानाभावात् / पश्यामि दृष्टमित्यनुव्यवसायात् / न चारोपितं तत्रानुभवत्वम् / अबाधनात् / अननुभतस्यापि स्वशिरश्छेदनादेरवभासनात् च / स्मृतिविपर्यासोऽसाविति चेत् / यदि स्मृतिविषये विपर्यास इत्यर्थः तदाऽनुमन्यामहे / अथ स्मृतावेवानुभवत्वविपर्यासः इति तदा प्रागेव निरस्तः / न च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसीयते / तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति / न ह्ययं घट इति स्मृतेराकारः / तस्मादनुभव एवासौ स्वीकर्तव्यः / अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात् / तच्च काकतालीयमपि न निर्निमित्तम् / सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात् / हेतुश्चात्र धर्म एव / स च कर्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोगक्षेमत्वात् / तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलम्, धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति / अतस्तत्सामग्रीविरहोऽसिद्धः / तथापि विपक्षे किं बाधकमिति चेत् / 'द्वे ब्रह्मणी वेदितव्ये' इत्यादियोगविधिवैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात् / न चासाक्षात्कारिज्ञानविधानमेतत् / अर्थज्ञानावधिनाऽध्ययनविधिनैव तस्य गतार्थत्वात् इति / एतेन परमाण्वादयो व्याख्याता इति / तदेनमेवम्भूतमधिकृत्य श्रूयते 'न द्रष्टुर्दृष्टेविपरिलोपो विद्यते' इति / 'एकमेवाद्वितीयम्' इति / 'पश्यत्यचक्षुः स शृणोत्यकर्णः' इति / 'द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च' इति / 'यज्ञेन यज्ञमयजन्त देवाः' इति / 'यज्ञा वै देवाः' इति / 'यज्ञो वै विष्णुः' इत्यादि / स्मर्यते च - सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज / इति / मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर / इति / 1. प्रवचनादिना इति पाठो मुद्रिते श्लोकवार्तिके वेदनित्यताधिकरणे श्लोक 8.
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy