________________ 186 * वामध्वजकृता सृङ्केतटीका 163. न तादृगर्थः क्वचित् इष्ट इति चेत् / स्वर्गादयोऽपि तथा / तन्मिथ्यात्वे तदर्थिनामप्रवृत्तौ सायुज्यादिफलमिथ्यात्वे कः प्रेक्षावान् तमुपासीतेति तुल्यमिति / वाक्यादपि / संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् / तथा च यत् पदकदम्बकं यत् संसर्गभेदप्रतिपादकं तत् तदनपेक्षसंसर्गज्ञानपूर्वकम्, यथा लौकिकम्, तथा च वैदिकमिति प्रयोगः / विपक्षे च बाधकमुक्तम् / सङ्ख्याविशेषादपि - स्यामभूवं भविष्यामीत्यादिसङ्ख्या च वक्तृगा / समाख्याऽपि न शाखानामाद्यप्रवचनादृते // 17 // कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते / तथाहि उत्तमपुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् / अस्ति च तत्प्रयोगः प्रायशो वेदे / ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽनन्वयप्रसङ्गात् / अथवा - समाख्याविशेषः सङ्ख्याविशेष उच्यते / काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते / ते च न प्रवचनमात्रनिबन्धनाः प्रवक्तृणामनन्तत्वात् / नापि प्रकृष्टवचननिमित्ताः / उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् / तत्पाठानुकरणे च प्रकर्षाभावात् / कतिचनादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति / नाप्याद्यस्य वक्तुः समाख्येति युक्तम् / भवद्भिस्तदनभ्युपगमात् / अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा विप्रतिपत्तिः / स्यादेतत्, ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः / तदध्येया तदनुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् / न / क्षत्रियादेरपि तत्रैवाधिकारात् / न च यो ब्राह्मणस्य विशेषः स क्षत्रियादौ सम्भवति / न च क्षत्रियादेरन्यो वेद इत्यस्ति / न च कठाः काठकमेवाधीयते तदर्थमेवानुतिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् / प्रागेवायं नियम आसीदिदानीमयं विप्लवते इति चेत् / विप्लव इव तर्हि सर्वदा, कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम् / तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्विति / स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वादेर्घटवत् / 163. सालोक्यं समानलोकता / सायुज्यं समानात्मना मर्त्यलोकाद् विशिष्टपु[रुषार्थ]वशेन [153B] शिवादिलोके वसेत् / शिव[लोके] तत्सार्वज्याणिमादिकैश्वर्यवान् वसेदित्यर्थः / ननु विपक्षे किं बाधकमित्यत आह - विपक्षे च बाधकमुक्तमिति निरर्थकत्वप्रसङ्गः / [शक्तिहानाप]त्तिप्रसङ्गश्चेत्यादि / अन्यथेति / उत्तमपुरुषाभिहिता हि सङ्ख्या यदि वक्त्रा सहान्वयं नाऽभिधत्ते तदाऽन्येनाप्यन्वयं नाभिदध्यात्, विरोधात् / तथा चानन्वितसङ्ख्याप्रतिपादा[त्] अनन्वितार्थत्वं स्यादित्यर्थः / नन्वस्मर्णमाणकर्तृकेषु कठादिसमाख्याया अन्यनिबन्धकत्वात् कथमतः कर्तुरनुमानम् / तदुक्तम् - काठादिकसमाख्या च एतत्कर्तृनिबन्ध[ना] / [तथा]स्य कर्तृमत्ताऽतस्तया न परिकल्प्यते / / तथा कारिकाया[म्]