SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 184 * वामध्वजकृता सृङ्केतटीका अपि तु देवविरोधिनो दानवाः विद्याविरोधिनः स(छ) द्मवादेयो(वादिनो)ऽभिधीयन्ते य(त)थाऽत्रापि नेष्टसाधनतानिषेधमात्रभिधीयते किन्तु तद्विरुद्धमनर्थसाधनत्वमिति शङ्कते - नाप्यसुरेति / परिहरति - क्रियासङ्गतत्वादिति / न हन्यादिति निषेधः क्रियासङ्गतोऽकृतसमासश्च प्रातिपदिकसङ्गतश्च नञशब्दो विरोधिवचनो लोके दृष्ट इत्यर्थः / तदेवं कर्तृकर्मकरणधर्मा न विधिरिति पराङ्गीकृतान् [पक्षान्] विस्तरतो निराकृत्य कर्तृकर्मकरणधर्मविधिपक्षेषु च निषेधामु(नु)पपत्तिमुपक्रान्तां(न्तान्) समर्थ्य स्वाभिमतनियोक्तृधर्मविधिमुपसंहरति - तस्मादिति / 161. तत्र स्वयङ्कर्तृकक्रियेच्छाऽभिधानं कुर्यामिति / सम्बोध्यकर्तृकक्रियेच्छाऽभिधानं कुर्या वाक्यस्यायमर्थः सम्पद्यते अग्निकामस्य दारुमथने प्रवृत्तिर्ममेष्टेति / ततः श्रोताऽनुमिनोति - नूनं दारुमथनयत्नोऽग्नेरुपाय इति / यद्विषयो हि प्रयत्नो यस्याप्तेनेष्यते, न तस्यापेक्षितहेतुः / तथा तेनावगतश्च, यथा ममैव पुत्रादेर्भोजनविषय इति व्याप्तेः / विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः / ततोऽपि श्रोताऽनुमिनोति - नूनं विषभक्षणभावना अनिष्टसाधनम् / यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोऽप्याप्तेन नेष्यते स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च, यथा ममैव पुत्रादेः क्रीडाकर्दमविषभक्षणादिविषय इति व्याप्तेः / लौकिक एव वाक्ये अयं प्रकारः कदाचिद् बुद्धिमधिरोहति न तु वैदिकेषु, तेषु पुरुषस्य निरस्तत्वात् इति चेत् / न / निरासहेतोरभावात् / तदस्तित्वेऽपि प्रमाणं नास्तीति चेत् / मा भूदन्यत्, विधिरेव तावद्गर्भ इव पुंयोगे प्रमाणं श्रुतिकुमार्याः किमत्र क्रियताम् / लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव वैदिकास्त एव चैषामा इति विप्लवेत / तथा च जबगडदशादिवत् अनर्थकत्वप्रसङ्ग इति भव सुस्थः / स्यादेतत् / तथापि वक्तणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं स्वतन्त्रेण वक्त्रा परमेश्वरेणेति चेत् / न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायाभावात् / भावे वा न राजशासनानुवादिनोऽभिप्राय आज्ञा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः / / _161. लिङादिभिः प्रत्यै(प्रत्यय)रभिधेयो विधिर्वक्त्रभिप्रायरूपत्वे कुर्यात् कुर्याः[152A] कुर्यामित्यत्रार्थवैचित्र्यात्ययो न स्यादित्याशब्याह - तत्र स्वयमित्यादि / उद्देश एव तात्पर्यमित्यादि / लोके लोकवृत्तानुसारत इत्यभिहितम् / तत्र लौकिकवाक्यस्यैव तावन्नियोक्तृधर्मप्रतिपादकत्वमिति दर्शयति / तथाहि अग्निकाम इत्यादिना क्रीडाकर्दम[ विष]भक्षणादिविषय इति व्याप्तेरित्यन्तेनेति / य एव लौकिका इति / 'हिरण्यपर्णो वनस्पति' तथा 'उत्ताना वै देवगावो वहति' इत्यादिकमुदाहृत्य विचारिता(तं) किं य एव लौकिका शब्दा अग्न्यादयस्त एव वैदिका अन्ये वेति / तत्र हिरण्यपर्णोत्तानवहनरूपं किञ्चिद्वैधये॒णान्यत्वेन पूर्वपक्षे(क्ष इ)ति, सिद्धान्तः स एव लौकिकास्त एव वैदिकास्त एव चामीषामा इति / तथाहि लोके परिदृष्टा एव प[दार्था] वेदेऽपि प्रत्यभिज्ञायमानाः कथमन्यतया वक्तुं शक्यते / उत्तानवहनवाक्यादेस्तु अन्यथैव ग्रहचक्रभ्रमणदर्शनेन वर्णितः / न चात्रानादिवहनरूप[स्य] [किंचिद्वैधादर्थस्य अत्यन्त वे(भे)द इति सांप्रतम् / यद्यैववामनागाके एवसानवराश्चिपितृनांशिका' इति / अनर्थकत्वप्रसङ्ग इति / गृहीतसङ्गतेलौकिक[152B]पदादन्यत्वेना 1. भ्रष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy