SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 183 * न्यायकुसुमाञ्जलि स्तबकः 5 स्यापि तथाभावोऽनादित्वं संप्रयो(स)ज्येतेत्यर्थः / ननु हननप्रागभावभावनाऽपूर्वमाध(द)धास्यतीत्यत आह - भावनायाश्चेति / अतद्विषयत्वं प्रागभावाविषयत्वं प्रागभावस्यासाध्यत्वादिति / भावना हि प्रयत्नरूपा साध्यविषयि[णीति] [150B] सिद्धः(द्धे) प्रागभावस्तस्या [अ] विषयो भवितुमर्हतीत्यर्थः / नन्वहननसङ्कल्पोऽपूर्वं भावयिष्यतीति मतमाशङ्क्य निराकरोति - अहननसङ्कल्पेनेति / अहननसङ्कल्पेना[पूर्वं भा]वयेदिति वाक्यार्थव्युत्पादने तु किं सकृदहननसङ्कल्पेनापूर्वं भावयेद् यावज्जीवं वा / आद्ये दूषण[माह] - सकृत् कृत्वैवेति / सर्वदेति दूषयति यावज्जीवमिति / या[व]दिति / हननप्रवृत्तिमात्राधिकारी ने(ते)न यदा यदा हनने प्रवृत्तस्तदा तदा तद्विपरीतसङ्कल्पेनापूर्वं भावयेदित्यर्थः / तदश्रुतेरिति परिहारे कृते परः शङ्कते - [प्रसक्तं हीति]। परिहरति - न वै किञ्चिदिति / कथं तं प्रतिषिध्यत इति जिज्ञासापरं बोधयितुमुक्तमर्थं विवेचयति - तदभावः प्रतिपद्यत इत्यादिना वाक्यार्थ इत्यने(न्ते)न / स बोध ----- न हीति / यदि तावन्निषेधशास्त्रेणेतिट' उच्चैनिषिध्यमानः कर्तव्यतारूपो वेष्टसाधनतारूपो वा निषिध्यते, तदशक्यो निषेद्धं लौकिकानां कर्तव्यत्वादीनां लौ[किकप्रमाणसिद्धत्वादिति / ननु बाधितस्यापि प्रतिपादनं दृष्टम्, अग्निना सिञ्चेदिति वदित्याशयवानाशङ्कते - तथापीति / परिहरति - न, पाषण्डेति / पूर्वमुक्तं यत् प्रसक्तं प्र[सा]ध्यते[151A] तदवश्यमनिष्टसाधनमित्यादि / तथा च प्रसक्तैव हि हिंसा यागादिविषया पाषण्डैः प्रतिषिध्यते, न च सा अनिष्टसाधनमिति व्यभिचार इत्यर्थः / ननु प्रमाणवाक्येन प्रतिषेधोऽभिमतः, न च पाषण्डवाक्यानि तथेत्याशयवान् शङ्कते - नासाविति / 160. न, अर्थविपर्ययप्रतिपादनाविशेषेऽस्यापि तथाभावात् / तात्पर्यतः प्रामाण्यमिति चेत् / न / विधिनिषेधयोरनन्यपरत्वात् / न विधौ परः शब्दार्थ इति वचनात् / तथापि निषेधे तथा भविष्यतीति चेत् / न / अविनाभावतदुद्देशप्रवृत्त्योरभावात् / नाप्यसुराविद्यादिवदस्य नो विरोधिवचनत्वम्, क्रियासङ्गतत्वात् / असमस्तत्वाच्च / तस्मात् - विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः / अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता // 160. ननु यदि प्रमाणबाधितमर्थं प्रतिपादयतः पाषण्डवाक्यस्याप्रमाणत्वम्, य(त)दा [न] हन्यादिति वाक्यस्याप्रमाणत्वमित्याशयवान् परिहरति - न, अर्थविपर्ययेति / हननं कर्तव्यं न भवतीत्ययमर्थो न हन्यादित्यनेन प्रतिपाद्यते / तत्र प्रमाणाबाधितन(त)[या] न कर्मभावनायाः प्रतीयमानत्वादित्यर्थः / ननु यथा गङ्गायां घोष इत्यस्य वाक्यस्य तीरान्वये तात्पर्यात् तत्प्रतिपादकत्वम्, तथा न हिंस्यादिति निषेधवाक्यस्य निषिध्यमानानसर्व(नानिष्ट)साधनतायां तात्पर्यात् तत्प्रतिपादकत्वमिति / विशेषमुररीकृत्य शङ्कते - तात्पर्य[त] इति / अर्थवादादिवचनात(ना) [म]न्यत्र विधौ तात्पर्यमभ्युपेयते न तु विधिवचनस्यापीति सर्वजनसिद्धमेतदिति परः / न, विधीति / पुनः शङ्कते - तथापीति / परिहरति - न, अविनाभावेति / तत्र हि लक्षणीयार्थपरत्वं यत्र [151B] तेनार्थेन शब्दार्थस्याविनाभावो भवति, तदुद्देशेन शब्दः प्रयुज्यते / न हीह विधिनिषेधवाक्यमन्यपरतया प्रयुज्यते / न वाक्येन सहास्याविनाभावोऽस्तीति निषेधो ह्यत्र परिस्फुरति / न च तस्यानर्थसाधनत्वेनाविनाभाव इत्यर्थः / ननु यथा असुर इति पदेन अविद्या इति पदेन न देवभावमात्रं विद्याभावमात्रं वाभिधीयते, 1. पाठो भ्रष्टः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy