SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 182 * वामध्वजकृता सृङ्केतटीका कल्प [एव लिङर्थः], तद्वत् प्रथमपुरुषेऽपीति बोद्धव्यम् / अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति - सर्वत्रेति / निगदव्याख्यातमेतत् / निषेधानुपपत्तित इति विवेचयति --- अभिधाविधिपक्षे अयं चाख्यातयोगी वा निषेधो धात्वर्थसङ्गतो वा / चरमे मुख्यार्थत्वे हननप्रागभाव एव भावनोपदेशे विधिवैयर्थ्यम्, असाध्यत्वात् / प्रथमे तु तदर्थे हि [हननभावना / तत्र च निषेधसम्बन्धिनी हननभावना नास्तीति चेत वैपरीत्यपरिच्छेदान्मिथ्या ततो हननभावनाभिधीयत इति पारिशेष्यादवसीयते [इत्याशय]वानपाकरोति - तथाहीति / वाक्यार्थो व्याघाततो निरस्तः यथाह - भावनापदं हननभावनाभिधायकं हननभावनां नाभिधत्त इति व्याघातः / तथा हन्या[दितिपदं] हननभावनाभिधायकमिष्टमभिधाविधिवादिना / तथा च तन्निषेधे व्याघात इत्यर्थः / भावना हि क्वचिच्च वर्तमानकालसम्बद्धा [150A] प्रतीयते यथा पचतीति, क्वचिदतीतकालसम्बद्धा यथा अपाक्षीदिति, क्वचिद् भाविकालसम्बद्धा यथा पक्षीदिति, क्वचित्कालत्रयानवच्छिन्ना यथा पचेदिति / अतः कालत्रयानवच्छिन्ना भावना लिङादिभिरभिधीयते / अतः सैव विधिरिति केचिद् वादिनो मन्यन्ते / तन्मतनिषेधार्थमाह - कालत्रयेति / यदा सकलकाला नावच्छिन्ना भावना 'न हन्यात' इति कत्वा निषिध्यते तदा हननभावना नास्तीति वाक्यार्थः। स च प्रमाणबाधितत्वाद् मिथ्येति / ___159. यदा कार्यं तदा न हन्यात् न हननं कार्यमित्यनुभवविरुद्धम् / क्रियत एव यतः / न हननेन कार्यं हननकारणकं कार्यं नास्तीत्यर्थ इत्यपि नास्ति / दुःखनिवृत्तिसुखापत्योरन्यतरस्य तत्र सद्भावात् / हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्तयेदेवेति साधु शास्त्रार्थः / अहननेनापूर्वं भावयेदिति त्वशक्यम् / कारणस्यानादित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तदविषयत्वात् / अहननसङ्कल्पेनेति यावज्जीवमविच्छिन्नतत्सङ्कल्पः स्यात् / सकृत् कृत्वैव वा निवृत्तिः / पश्चाद् हन्यादेवाविरोधात् / सम्पादितो ह्यनेन नियोगार्थः / यावद् यावद् हननसङ्कल्पवान् तावत् तावद् विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्तम् / तदश्रुतेः / प्रसक्तं हि प्रतिषिध्यते नाप्रसक्तमिति चेत् / न वै किञ्चिदिह प्रतिषिध्यते / तदभावः प्रतिपाद्यते इति निषेधार्थः / हननकरणकमपूर्वं वाक्यार्थः / किञ्च न हन्यादिति अहननेनापूर्वस्य कर्तव्यताप्रत्ययो जातो वेदात्, जातश्च हननक्रियायां रागात् / निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादेवेत्यहो वेदव्याख्याकौशलमास्तिक्याभिमानिनो मीमांसकदुर्दुरूढस्य / इष्टसाधनतापक्षेऽपि न हन्यात् न हननभावना इष्टाभ्युपाय इति वाक्यार्थः / तथा चानिष्टसाधनत्वं कुतो लभ्यते / न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टमुपेक्षणीयस्यापि भावात् / यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथा सविषमन्नं न भुञ्जीथा इति, तेन वेदेऽप्यनुमास्यते, इत्यपि न साधीयः / प्रतिषेधार्थस्यैव चिन्त्यमानत्वात् / न हि कर्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वा अभावः प्रतिपादयितुं शक्यते, लौकिकानां लौकिकप्रमाणसिद्धत्वात् / तथापि प्रतिपाद्यते तावदिति चेत् / न / पाषण्डागमनिषेधेनानैकान्तात् / नासौ प्रमाणमिति चेत् / 159. कार्यविधिपक्षेऽपि निषेधो न घटते इत्याह - यदा कार्यमिति / कार्यं कृतिसाध्यं कृत्युद्देश्य च / तत्र हननं कृतिसाध्यं कृत्युद्देश्यं च न भवतीत्युभयमपि बाधितं, हननस्य कृतिसाध्यत्वादिति / भावनायां हि कृत्युद्देश्यत्वयोरनुभवसिद्धत्वादिति / अहननेनेति / आहननं] हननप्रागभावः, तस्यानादित्वेन कार्यस्यापूर्व
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy