________________ 181 * न्यायकुसुमाञ्जलि स्तबकः 5 [तत्सङ्ख्याभिधानमिति] / लिङा चेष्टसाधनतामात्रावगमेऽपि न यागे इष्टसाधनताप्रत्ययः / पचेत्-पठेत्-गच्छेत्तिष्ठेदित्यादिषु यागे [इ]ष्टसाधनताप्रतीतिप्रसङ्गादित्याह - न चेति / चो हेत्वर्थे / यतो हेतोरन्वयबलात् तल्लाभ इत्युक्तं ततो न यागेष्टसाधनताभिधानमित्यर्थः / इष्टसाधनतान(व)गमेऽपि न प्रवृत्तिरिति हेतुत्वविरहान्नेष्टसाधनताविधिरिति केनचिदुक्तमुत्थाप्य फलाभिलाषिणो न तु प्रवृत्तिरिति निराकरोति - यत्त्वित्यादिना कः प्रतीयादित्यने (न्ते)न / [149A] यदि वा सिद्धापदेशादिष्टसाधनतामवगम्य न प्रवर्तत इति नेष्टसाधनताविधिरिति तथा पूर्वोक्तेषु कर्मधर्मादिषु सिद्धापदेशादपूर्वकार्यतादिप्रतीतावपि न प्रवृत्तिरिति कर्मधर्मादयो विधयो [न] भवेयुरित्याशयवानाह - सर्वपक्षेति / समानं चैतद्रूषणमित्यर्थः / यदि तत्र फलाभिलाक्षणिक:(लाषिणः) प्रवृत्तिरिति नोक्तं दूषणमिति तदा प्रकृतेऽपि तथैव समाधिरवसेय इत्याशयवानाह - समानपरिहारं चेति / एवमिष्टसाधनताविधिपक्षं पराभ्युपगतं विस्तरतो व्युत्पाद्य स्वसिद्धान्तानुसारतो निराकर्तुं सन्देहं तावदुत्पादयति अस्त्वित्यादिना सन्दिह्यत इत्यन्तेन / अत्र निर्णयसु(मु)पक्रमते - एवं च सतीति / 158. हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः / ___ अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः // 14 // तथाहि - 'अग्निकामो दारुणी मनीयात्' इति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति यतस्तन्मन्थनादग्निरस्य सिद्धयतीति / 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्यादाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः - यदश्वमेधेन यजेत मृत्युब्रह्महत्यातरणकाम इत्यादिविधिम् / निन्दया च निषेधम् / तत् यथा - 'अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः' इत्यतो 'नात्मानं हन्यात्' इति / कुर्याः कुर्याम् इत्यत्र विधिविहितैव लिङ् नेष्टाभ्युपायतामाह, किन्तु वक्तृसङ्कल्पम् न हीष्टाभ्युपायो ममायमिति कुर्यामिति पदार्थः, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः कुर्यामिति, स एव / सर्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिडेत्यवधृतम् / तथाह्याज्ञाऽध्येषणाऽनुज्ञासंप्रश्नप्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति / यां वक्तुरिच्छामननुविदधानस्तत्क्षोभाद् बिभेति, सा आज्ञा / या तु श्रोतुः पूजासम्मानव्यञ्जिका, साऽध्येषणा / वारणाभावव्यञ्जिका अनुज्ञा / अभिधानप्रयोजना सम्प्रश्नः / लाभेच्छा प्रार्थना / शुभाशंसनमाशीरिति / न च विधिविकल्पेषु निषेध उपपद्यते / तथाहि - यदाऽभिधा विधिः तदा न हन्यात हननभावना नाभिधीयते इति वाक्यार्थो व्याघातान्निरस्तः / यदा कालत्रयापरामृष्टा भावना तदा नेति सम्बन्धोऽत्यन्ताभावो मिथ्या / _158. कुतो नाभिधीयत इत्यत आह - हेतुत्वादित्यादि / अग्निकामो दारुणी मथ्नीयादिति श्रुते कुत इत्यनुयोगे प्रतिवक्तारो भवन्ति तत्प्रयत्नस्य हेतुत्वादिति / अत्र च लिङा इष्टसाधनताभिधाने प्रश्नोत्तरक्रमो न भवेदित्यर्थः / अनुमानादिति / विधिरिति शेषः / अश्वमेधेनेति / यदि लिङा इष्टसाधनताऽभिधीयते तदेतस्मादेव वाक्यादश्वमेधस्य बह्महत्यातरणसाधनत्वावगते विधि(धे)रनुमानं व्यर्थम् / विधेरपि हीष्टसाधनता प्रत्येतव्या, सा चास्मादेव वाक्यात् प्रतीतेति किं विध्यनुमानेन / तस्मात् तदेव विध्यनुमानमुपपद्यते यदीष्टसाधनता[149B]व्यतिरिक्तोऽर्थो विधिना प्रतिपद्येत इति रहस्यम् / मध्यमादाविति विवृणोति / कुर्याः कुर्यामित्यत्रेति / यदि प्रथमपुरुषे विधिविहित(ता) या लिङेष्टसाधनता [भिधीयते] तदा मध्यमोत्तमपुरुषयोरपि विधिविहिता लिङेष्टसाधनतामभिदध्यात् / नन्वेवमभिधत्ते / तस्मान्मध्यमादाविष्टसाधनताविरहे वक्तृतं(सं)