SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 180 * वामध्वजकृता सृङ्केतटीका कारणत्वं भविष्यति / न हि वाचकत्वं शब्दस्वरूपनिरूपणं विनेत्यर्थः / अस्तु वा शब्दव्यापारोऽभिधाभाव(व:), अभिधीयतां च लिङा[त्], तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वात् / समुद्रतरणोपदेशादपि प्रवृत्त्यापत्तेश्चेत्याह - अधिकत्वेऽपीति / प्रवर्तकश्च विधिरभिमत इति रहस्य[म्] / व्युत्पन्नाभिधा लिङः प्रतिपद्यमाना अपि न प्रवर्त[-]ते इत्यभिधायाव्युत्पन्नास्तु अभिधामबुद्ध्यमाना अपि प्रवर्त[-]ते इत्याह - बालानां त्विति / तदभा[148A]वेऽपि तद्भावाद् वृत्तिभावादित्यर्थः / उक्तं च न चाभिधानेऽभिधानेऽपि मतंश्च हि न शिशव इति(ती) ति' / अभिधाशब्देनाऽप्यभिधाबोधवतामप्यप्रवृत्तिरित्याह - शब्दान्तरेणेति / नन्वभिधाशब्दा[द]भिधामात्रं प्रतीयते लिङस्तु विलक्षणैवेति परो मन्यते तदाशक्य निराचष्टे - न चेति / अर्थविशेषोऽपीति / 'अर्थेनैव विशेषो हि निराकारतया धियाम्' इति न्यायादर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्तेरित्यर्थः / तत्सन्निधानादिति / अभिधायाः सन्निहितत्वादभिधा समवायिनी विलक्षणा(णां) प्रवृत्ति(त्ति) विधत्त इत्यर्थः / अनियमादिति / इष्टसाधनतादेरपि सन्निहितत्वादित्यर्थः / ननु [3]क्तं काशिकाकृता यत् सकलेतरप्रकारव्युदासादित्याद्या(दि) [तत्] हृदि [निधाय] शङ्कते - अन्यस्येति / शेषमतिरोहितम् / द्वितीयपक्षमाशङ्कते - इष्टसाधनता त्विति। 157. तत्र विषयो धातुना भावनाऽऽख्यातमात्रेण, शेषं तु तद्विशेषेण लिडा इत्येवमिष्टाभ्युपायतायामधिगतायामन्वयबलात् तद्विषयस्येष्टसाधनत्वावगतिरिति कर्तव्यतैकार्थसमवायिनीष्टाभ्युपायता लिडर प्रवृत्तिनिमित्तमित्युक्तम् / करणस्येष्टसाधनताभिधाने ज्योतिष्टोमेनेति तृतीयया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव / तत्सङ्ख्याभिधानं हि तदभिधानमाख्यातेन, न च तत् प्रकृते / न च यागेष्टसाधनताभिधानं लिङा, किन्त्वन्वयबलात् तल्लाभ इत्युक्तम् / यत् तु सिद्धापदेशादपि प्रतीयते इष्टसाधनता, न चात: सङ्कल्पात्मा प्रवृत्तिरस्तीति देश्यम् / तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनतावगमेऽपि न प्रवृत्तिरिति कः प्रतीयात् / सर्वपक्षसमानं चैतत् समानपरीहारं चेति किं तेन / अत्राभिधीयते - अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः, तथापि नासौ लिडर्थः, सन्देहात् / सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादावनुमानादिव बालेन, किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते, चेष्टाविशेषानुमितादिवाभिप्रायविशेषात् समयाभिज्ञेनेति सन्दिह्यते / एवं च सति सा नाभिधीयते इत्येव निर्णयः / 157. तत्र विषय इति / भावनाविषयो याग इत्यर्थः / भावना प्रयत्नः / शेषस्त्वि(षं त्वि)ति / भावनायाः कालत्रयापवामशे(त्रयावमर्श) इष्टसाधनत्वादित्यर्थः / तद्विशेषेणेति आख्यातविशेषेणेति / तद्विशेषस्येष्टसाधनीभूत[148B]भावनाविषयस्य / भावना हि स्वर्गसाधनतयेष्टेति तत्कारणं यागोऽपि इष्टसाधनमित्यर्थः / अवैयाकरणस्येति / अभिहिताधिकारस्य लिङ्कृत्तद्धितसमासैरुपसङ्ख्यानमित्यनेन नियमितत्वात् / न चेति / कारकादिभिरप्यभिधानदर्शनात् प्रदर्शनीयात्रार्थ[ता] / तदिति वाच्य(च्यं) शिष्टैस्तथाप्रयुज्यमानत्वात् / तदपेक्षयैव तस्य तथात्वव्यवस्थापनात् / अन्यथाऽनियमप्रसङ्गादिति / तदत्र कृत्तद्धितसमासानामसम्भवात् न तथा / लिङ्आख्यातेन यागसङ्ख्याभिधानमिति वाच्यम्, न चैवमिहास्तीत्याह - तत्सङ्ख्याभिधानमिति / कुतोऽने[ने]त्यत आह - न चेति / न हि [य]जेतेति करणे प्रत्ययो येन करणसङ्ख्यामभिदध्यात्, किन्तु कर्तरीति 1. भ्रष्टं वाक्यम् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy