________________ 179 * न्यायकुसुमाञ्जलि स्तबकः 5 पुत्रस्य व्यापारलक्षणयोग इत्याशयवान् विशदयति - यं जनयित्वेति / उभयं वेति / कार्यत्वमपूर्वत्वं च लिङा प्रवृत्तिनिमित्तमिति न सम्भवतीत्यर्थः / न क्रियापीति संगृहीतम् / विधिवादिनमाशङ्कते - अस्तु तीति / अध्यवसायार्थो वेति / अध्यवसायार्थः चिकीर्षा / शेषं तु सुबोधम् / तृतीये तु वक्ष्यते / [147A] कर्तु(ा)पेक्षितोपायतानिराकरणे[ने]त्यर्थः / परानी(परस्वी)कृतकरणधर्मविधि निराकर्तुमाशङ्कते - अस्त्विति / निराकरोति - नेति / तदर्थो भावनादिर्वा करणमित्यनुषञ्जनीयम् / तथा च तस्य शब्दार्थभावनादेकः करणधर्म इत्यु(त्य)साधुः, नानेत्यर्थः / अभिधापक्षे दूषणं संगृह्णाति - असत्त्वादित्यादिना / अभिधाया असत्त्वात् / सत्त्वेऽप्यप्रवर्तकत्वान्नाभिधा विधिरित्यर्थः / अन्येष पक्षेष बाधसम्भवात परिशेषादभिधापक्षो भविष्यतीत्याशक्य अत्रापि बाधसम्भव इति परिहरति - बाधकस्येति / ___156. सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् / अन्यसमवेतस्यापूर्ववदन्यव्यापारत्वेनाप्युपपत्तेः / विषयतयाऽपि च स्वव्यापार प्रति लिङ्गवद्धेतुभावाविरोधात्, अधिकत्वेऽपि ततोऽप्रवृत्तेः। बालानां तदभावेऽपि तद्भावात् / शब्दान्तरेण तच्छ्राविणामप्यप्रवृत्तेः / न च विलक्षणैव सा लिङ्गो विषयः / तद्वैलक्षण्यं प्रतीतं प्रति चेत्, अर्थविशेषोऽपि स्यात् / प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः ? तत्सन्निधानादिति चेत् / न / अनियमात् / अन्यस्य सर्वस्य निषेधादिति चेत् / न। प्रवृत्तिहेतुत्वनिषेधस्य तुल्यत्वात् / शब्दैकवेद्यत्वे चाव्युत्पत्तेः / प्रवृत्त्यन्यथानुपपत्तिसिद्धे व्युत्पत्तिरित्यपि वार्तम् / न हि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते / इष्टसाधनता तु स्यात् / सर्वो हि मया क्रियमाणमेतन्मतं समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानुभवसिद्धम् / तदयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान् तज्ज्ञानमेव लिङ्झाविणः प्रवृत्तिकारणमनुमिनोति। ततश्च कर्तव्यतैकार्थसमवायिनी इष्टसाधनता. लिङर्थ इत्यवधारयति / न च वाच्यम् - एवं चेत् वरं कर्तव्यतैवास्तु, अवश्याभ्युपगमनीयत्वात्, कृतमिष्टसाधनतया इति / यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्तते, असाध्येषु व्यभिचारात् / तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्तते इत्यनुभवः / 156. असत्त्वादिति विवृणोति - सङ्गतीति सङ्केतवासन(ना)नु शब्दार्थ अर्थज्ञानं जनयतीति सङ्केतग्रहणमेवाभिधेत्यर्थः / ननु च सर्वस्यैव करणस्य स्वकार्ये ल(?) व्यापारवन्तमुपलब्धम् / अत शब्दस्यापि स्वार्थप्रतिपादने कर्तव्ये व्यापारेण संभवितव्यम् / न चास्य सङ्गतिः प्रतिसन्धानमन्तरान्तरव्यापारो भवितुमर्हति व्यापारिणं शब्दं विहाय तस्यात्मसमवेतत्वात् / ततो यः शब्दसम्बन्धो व्यापारः शब्दार्थप्रतीत्यर्थानुकूला साऽभिधेति परमतं हृदि निधायाह - आत्मसमवेतस्येति / यथा ह्यात्मन(नि) समवेतम[147B]प्यपूर्व यागादे[र्व्यापार]स्तथा सङ्गतिप्रतिसन्धानमात्मसमवेतमपि शब्दव्यापारो भविष्यतीत्यर्थः / ननु च यो व्यापारी तस्य व्यापारे कारणत्वमुपलब्धं यथा कुठारस्योद्यमननिपतनादि तरुसंयोगे / अतः शब्देनापि स्वव्यापारे कारणेन भवितव्यम् / न च तस्य सङ्गतिसन्धाने कारणत्वमस्त्यतः तदन्य एव शब्दाधारोत्पत्तिशब्दव्यापारोऽभिधेति स्वीकर्तव्यमिति [हृदि] निधामा(या)ह - विषयतयापीति / यथा हि लिङस्य स्वपरामर्शरूपेऽवान्तरव्यापारे विषयतया कारणत्वम् तथा सङ्गतिप्रतिसन्धाने वाच्यवाचकभावनिरूपणेऽऽत्मा(त्म)नि विषयतया शब्दस्य 1. पाठोऽपूर्णोऽस्पष्टश्च /