SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 177 * न्यायकुसुमाञ्जलि स्तबकः 5 किं नश्छिन्नमिति चेत् / किं नश्छिन्नं यदा कामाधिकारेऽपि तदलाभः, न हि लिङा कार्यं स्वर्गसाधनमुक्तम् / नापि स्वर्गकामपदसमभिव्याहारान्यथानुपपत्त्या तल्लब्धम्, ब्राह्मणत्वादिवद् अधिकार्यवच्छेदमात्रेणैवोपपत्तेः / न चेदमनुमानम् - यस्य यदिच्छातो यत् कर्तव्यं तत् तस्येष्टसाधनमिति / अन्येच्छयैव तत्कर्तव्यतायाः सुखेनानैकान्तिकत्वात्, औपाधिककर्तव्यतायाश्चेष्टसाधनत्वमप्रतीत्य प्रत्येतुमशक्यत्वात् / किमनया विशेषचिन्तया, प्रतीयते तावच्छब्दादन्यदिच्छतोऽन्यत्कार्यमित्येतावतैवानुमानमिति चेत् / नन्वन्वितमभिधानीयम्, योग्यं चान्वीयते, अन्यदिच्छतश्चान्यत् कर्तव्यमन्वयायोग्यम्, तत् कथमभिधीयताम् / तत एव तत्साधनत्वसिद्धिरिति चेत् / एवं तीष्टसाधनतैकार्थसमवायिकर्तव्यत्वाभिधानादनुमानानवकाशः / __154. आनुमानिक[145B]मिति / अयमर्थः / नित्यनिषेधादौ न विध्यन्यथानुपपत्त्या फलकल्पना, नापि कार्यताप्रत्ययान्यथानुपपत्त्या, किन्तु यत् कर्तव्यं नहि(तदि)ष्टाभ्युपाय इति कर्तव्यत्वेन फ[ला]नुमानं सिद्ध्य[तीत्यर्थः - फलं विहायेति / फलव्यतिरिक्तत्वे सति कर्तव्यत्वात् इष्टोपायतानुमानमित्यर्थः / तीति / फलेतरत्वं हि स्वभावतोऽनिष्टत्वम्, उद्देशप्रवृत्तं च तत्कृतिसाध्यत्वम् / न च यत् स्वभावतोऽनिष्टं तदुद्देशेन कृतिर्भवति / न च यदुद्देशेन कृतिर्न भवति तथो(दु) देशप्रवृत्तकृतिसाध्यकर्तव्यं भवतीत्यर्थः / अनन्योद्देशेति। नित्यनिषेधादावुद्देश्यफलान्तराभावादित्यर्थः / अन्यथेति / उद्देश्यफलान्तरसद्भावे नित्यविधित्वे स्वादे(स्वोद्दे)श्यान्तराभावात स्वभावानिष्टत्वासिद्धिरित्याह - तत इति / व्याप्तावविरोधादित्यर्थः / अ[नन्योद्देशप्रवृत्त इति / साध्यत्वस्वभावानिष्टतयोरन्यतरापाय इत्यर्थः / नित्यनिषेधापूर्वयोरलाभे त्वन्यत्रापि नापूर्वसिद्धिरित्याह - अस्त्विति। ननु कथं कामाधिकारे [अपूर्व]लाभः / उक्तं हि 'का(मः) काम्यमानफलोत्पादनसमर्थवैदिकैर्लिङादिभिरभिधेयीक्रियते' इत्यत आह - न हीति / तत्कि लिडेव निरपेक्षाऽभिदध्य(धा)ति स्वर्गकामादिपदसमभिव्याहृता वा ? आद्य उक्तं न हीति / एवं हि लौकिकी लिङनर्थिका प्रसज्यत इत्युक्तमिति भावः / आलिङादिकार्यं चानन्योद्देशप्रवृत्तकृतिसाध्यम् / न च तत्स्वर्ग[146A]साधन[म्] / न हि प्रधानत्वेनैकादैवाभिधीयमानं स्वर्ग(ग) प्रति साधनत्वेन गुणभूतत्वेनापि शक्यमभिधातुमिति तात्पर्यम् / द्वितीयमाशङ्क्य निराकरोति - नापीति / स्वर्गकामपदसमभिव्याहारबलेन स्वर्गकामिसम्बन्धि तत्कार्यं वक्तव्यम् / तदेव च कार्यं स्वर्गकामिसम्बन्धीति दृत्वा साध्यतोऽकृतिश्च, स्वर्गकामिसम्बन्धिधी सैव या स्वर्गकामितया जन्यते एव, अस्वर्गरूपं स्वर्गसाधनं च न स्वर्गकामिनः कार्यं भवितुमर्हति / स्वर्गसाधनत्वे तु कार्यस्य नियतमपूर्वलाभ इत्यर्थः / ब्राह्मणत्वादिवदिति / अयमर्थः / यस्य सहजसुन्दरत्वेन स्वर्गकामेनोत्पन्ना[त]त्सम्बन्धिकार्यमिति वाक्यार्थो न तु स्वर्गकामेनाजनिता कृतिः तदुद्देश्यकार्यमिति कृतिस्वर्गकामनयोरपि कार्यकारणभावो वाक्यादवगम्यते / यथा च यथा यस्य ब्राह्मण्यमस्ति तस्य कार्यमित्यवगमः तथा यस्य स्वर्गकामनाऽस्ति तत्सम्बन्धि कार्यत्वमिति कार्य प्रतीयते / ननु(न तु) स्वर्गकामनाजन्या कृतिः स्वर्णोद्देशप्रवृत्तकृतिसाध्य(ध्यं) च कार्यमि[ति] वाक्यात् प्रतीतिरस्ति / एवं च क(न) स्थायिनोऽपूर्वस्य लाभ इत्यर्थः / ननु वाक्यादपूर्वलाभो मा भूत् / स्वर्गकामपदसमभिव्याहारान्यथानुपपत्तेः / तथाप्यनुमानादपूर्वलाभोऽस्त्विति परमतमाशङ्क्य निराकरोति - न चेदमिति / अनुमानमुपन्यस्यति - यस्य यदिच्छात इति / किमनि(न्ये)च्छया [146B] कर्तव्यत्वं स्वभावतः [वा] / अन्येच्छया कर्तव्यत्वे स्वोद्देशप्रवृत्तकृतिसाध्यत्वं भज्येत / द्वितीये सुखेन व्यभिचार इत्याह - तदिच्छयैवेति / सुखमिच्छतः स्वभावतः सुखं कर्तव्यं भवति / न च तदिष्टोपाय इति व्यभिचारः / तत एवेति स्वर्गसाधन
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy