SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 176 * वामध्वजकृता सृङ्केत्तटीका 153. अस्तु तर्हि तदेव प्रवृत्तिनिमित्तम्, तर्कसम्पादनया त्वपूर्वव्यक्तिलाभ इति चेत् / न / नित्यनिषेधापूर्वयोरलाभप्रसङ्गात् / न चास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रार्थेनान्यत्र तथैव व्यवहार इति सम्भवति / कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णीतत्वात्, न त्वपूर्वत्वस्य / न्यायसम्पादनायाश्च तत्रासम्भवात् / फलानुगुण्येन हि व्यक्तिविशेषो लभ्यते, न च तत् तत्र श्रूयते / न चाश्रुतमपि कल्पयितुं शक्यते / बीजाभावात् / तद्धि विध्यन्यथाऽनुपपत्त्या ल्प्येत, कार्यत्वप्रत्ययान्यथाऽनुपपत्त्या वा, लोकवत् / न प्रथमः / भवतां दर्शने तस्योपेयरूपत्वात्, यतः श्रुतस्वर्गफलत्वेऽपि साध्यविवृद्धिरुच्यते / न द्वितीयः / शब्दबलेन तत्प्रत्यये तदनपेक्षणात्, लोके हि तत्प्रत्यय इष्टाभ्युपायताऽधीनो न तु वेदे इत्यभ्युपगमात् / अन्यथेष्टाभ्युपायतैव प्रथमं वेदादवगन्तव्या, प्रमाणान्तराभावात्, ततः कार्यतेत्यानुमानिको विधिः स्यात्, न शाब्दः / __153. तदेवमपूर्वस्य प्रतीतावपूर्वत्वहानिरित्युपक्रान्तनियता(त)प्रबन्धेन समर्थितम् / सम्प्रति तदलाभान्न कार्यत्वेनेति सङ्ग्रहीतस्य ष्ठी(स्वी)क -----नित्यनिषेधापूर्वयोरिति / 'अहरह: सन्ध्यामुपासीत, ब्राह्मणो न हन्तव्यः' इत्याभ्यां विधिनिषेधाभ्यां नित्यापूर्वस्य निषेधापूर्वसिद्धिपक्ष इत्यर्थः / तत् तत्रेति / तत् फ[लम्, तत्र विधिनिषेधादावित्यर्थः / ननु विश्वजिदादावश्रुतमपि स्वर्ग[फलं] सर्वान् प्रत्यविशिष्टत्वादिति न्यायात् स्वर्गादिफलं कल्पयिष्यत इत्याशक्य निराकरोति - न चेति / त[द्]दर्शने इति शेषः / बीजाभावादित्यत्रापि अन्वय इति शेषः / अपसिद्धान्तप्रसङ्गाच्च / बीजाभावमेव विकल्प्य दर्शयति - तद्धीति कार्यमिति / लोके हि भोजनादौ कार्ये तत्प्रत्यय इष्टसाधनतालिङ्गक: कार्यताप्रत्ययः / [145A] यदि भोजनादौ फलं नास्तीष्टसाधनतालिङ्गानुस[-]धानहेतुकस्तत्र कार्यताप्रत्ययो न स्यात् तदवश्यं कार्यताप्रत्ययान्यथानुपपत्त्या यथा लोके फलं कल्प्यते तथा वेदेऽपि कल्पनीयमित्यर्थः / भवतां दर्शन इति / यस्य हि दर्शने समीहितसाधनतारूपो विधिः तन्मते समीहिततत्फलसम्बन्धमन्तरेणानुपपद्यमानः फलमुपकल्पयति / यस्य त्वनन्योद्देशप्रवृत्तवृत्तिसाध्यो विधिः तस्य कुतः फलकल्पना / स्वभावत एव कृतिसाध्यस्य कृत्युद्देश्यस्य च प्रति निराकाक्षत्वात् तस्येति / विधिन(र)पूर्वस्येव साध्यस्वर्गपयन्तं व्याप्नोति / [अ]पूर्वः स्वर्गं प्रति साधनमिति कृति प्रति साधनस्य गुणत्वानुपपत्ते. / शब्दबलेनेति / तवाभ्युपगम इत्यभिप्रायशेषः / तमेव दर्शयति - लोके हीति / तत्र हि कार्यताप्रत्ययः समीहितसाधनताज्ञानमपेक्षते यत्रेष्टसाधनत्वलिङ्गं विनोत्पत्तिर्भवति, यत्र पुनः शब्दसङ्केतं विनोत्पत्तिस्तत्र किं लिङ्गापेक्षयेति / एवमपि य----पि कर्तव्यताबोध इष्टाभ्युपायताप्रत्ययाधीन इत्यनुमन्यते तदेष्टसाधनताधियमपि वेद एव सूत(श्रूयत) इत्यवर्जनीयज्ञा(ता) पद्यते / अन्यथ(था)स्याभावादित्याह - अन्यथेति / तथाहि शब्दादवगतादिव लिङ्गात् कार्यताऽवगन्तुं शक्यत इति / न तत्र शब्दशक्तिकल्पना / एवं च कार्यतारूपो विधिरनुमानगम्यः स्यात्, न श(शा)ब्दः इत्यर्थः / _154. आनुमानिकं फलमस्तु, यत् कतव्यं तदिष्टाभ्युपाय इति व्याप्तेरित्यपि न युक्तम् / सुखेन व्यभिचारात् / अन्यत्वे सतीति चेत् / न / दुःखाभावेन व्यभिचारात् / फलं विहायेति चेत् / तदेव किमुक्तं स्यात् / इष्टं स्वभावत इति चेत् / तर्हि ततोऽन्यदनिष्टं स्यात्, तच्च कर्तव्यमिति व्याघातः / तत्साधनमिति चेत् / तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् / स्वभावतो नेदमिष्टं कर्तव्यं च, ततो नूनमिष्टसाधनमिति साधनार्थ इति चेत् / न / स्वभावतो नेदमिष्टमित्यसिद्धेः / अनन्योद्देशप्रवृत्तकृतिव्याप्तवात्, अन्यथा तदसिद्धेः, ततो व्याघातादन्यतरापाय इति / अस्तु नित्यनिषेधापूर्वयोरलाभः,
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy