SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 175 * न्यायकुसुमाञ्जलि स्तबकः 5 स्वर्गादिकामयोगाच्च साध्यत्वेनैव गम्यते / तेन साध्यत्वपर्यन्तस्वर्गादीच्छाविशेषितः / तदेव शक्नुयाद् बोद्धं कार्यं यत् कामसाधनम् / इति प्राभाकरादिगर्वसङ्क्षपः / एतन्निराकरोति - नेति / तथाहि गङ्गादिपदं तीरमुपलक्षयतीत्यस्यायमर्थः / यत्र तत् स्वार्थमभिधाय प्रतीतचरस्वरूपसम्बद्धं तत्सम्बन्धिनं स्मारयति तदविनाभाविनमनुमापयतीति वा / अन्यथा लक्षणाबीजाविनाभावाभावात् प्रत्यासत्त्यनुस्मरणप्रयासवैफल्यप्रसङ्गाच्च / त[5] दिहापि कार्यत्वमपूर्वता प्रतीतचरमुपलक्षयितुमलमित्याशयवान् विकल्पयति - उपलक्षणं हीति / 152. न हि संस्कारवन्मनोवददृष्टवद् वा कार्यत्वमपूर्वत्वमुपलक्षयति, ज्ञानापेक्षणात् / ततो हस्तीव हस्तिपकम्, धूम इव धूमध्वजम्, तत्सम्बन्धज्ञानादुपलक्षयेत्, न त्वन्यथा / तथा च न्यायसम्पादनाऽप्यरण्ये रुदितम्, न हि युक्तिसहस्ररप्यविदिते सङ्गतिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्तते इति / एतेन भेदाग्रहात् क्रियाकार्ये व्युत्पत्तिरिति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् / किञ्चापूर्वत्वे प्रवृत्तिनिमित्ते कल्प्यमाने लौकिकी लिङनर्थिका प्रसज्येत, तत्रोपलक्षणीयाभावात् / तत्र कार्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि तथैवास्तु क्लृप्तत्वात् सम्भवाच्चेति / 152. ननु मनो दृष्टस्वरूपं सम्बद्धमेवानुमापयति स्मारयति चेति दृष्टचरं तथेहापि स्यादित्याशक्य निराकरोति - न हीति / उपलक्षणं [ज्ञापयति], न जनयतीत्यर्थः / ननु न्यायसम्पादनयाऽपूर्वस्य प्रतीतिरस्ति न वा / एवंसति प्रमाणापूर्वत्वव्याघातः / न्यायसम्पादनाया अप्रमाणत्वात् / यथाभूतप्रमाणसापेक्षा[र्थ]परिच्छेदकत्वेन स्मृतिरप्रमाणं तथा भाविप्रमाणसापेक्षार्थपरिच्छेदकतया न्यायसम्पादनाऽपि स्मृतिवदप्रमाणं स्मृतिरेव वेत्यत आह - तथा चेति / न्यायसम्पादना हि [144A] अपूर्वात्मनि ज्ञानं जनयति न वा / न चेत्, कथमगृहीते सङ्गतिग्रहः / जनयति चेत्, यथार्थमयथार्थं वा / अयथार्थं चेद् गतं वेदप्रामाण्यं प्रत्याशया / यथार्थं चेदननुभूतगोचरमनुभूतगोचरं वा / अननुभूतगोचरं चेत् न्का(क्वा)पूर्वत्वम् / अनुभूतगोचरं तु भविष्यत्प्रमाणसापेक्षार्थपरिच्छेदकत्वात् स्मृतिवदप्रमाणम् / स्मृतिरेव न प्रथमः शिष्टाभ्यासवशेन भविष्यत्प्रमाणगोचरतयाऽनुमीयमानस्य शास्त्रार्थस्यानुमिते भाविप्रमाणविषयतयाः(थ)परिच्छेदिकाया अपि प्रामाण्यदर्शनात् / एवमात्माभ्यासपरस्य भविष्य - - -साक्षात्कार इति ज्ञानमप्रमाणं स्यात् / यदि तस्येच्छाकल्पितेन लक्षणेन वा प्रामाण्यव्यवहारः, तदा लिङर्थज्ञानं प्रमाणमिति सुतरामपूर्वस्य प्रमाणगोचरत्व - - - / तदिहापि प्रामाण्यव्यवहारो लोकसिद्धो वा वक्तव्यः परीक्षकसिद्धो वा परीक्षकान्तराभ्युपगमसिद्धो वा / न तावदाद्यः, न ह्यनुभूतपदार्थावगाहि विज्ञानं लौकिकां(का) अप्रमाणमिति व्यवहा(ह)रति(न्ति) / न द्वितीयः, परीक्षकानां सर्वत्र यथानुभवप्रमाणव्यवहारदर्शनात् / तत्र तद्विपर्यासस्यानुपपत्तेः / न च स्मृतिविस्मृतत्व(त्वं) तत्रानुभवसिद्धं वा स्यात् / अनुभवान्तरविषयत्वेनार्थपरिच्छेदकत्वादनुमितं वा परीक्षकान्तराभ्युपगमसिद्धं वा / नाद्यः, स्मरामीत्यनुभवाभावात् / न द्वितीयः, स्मरामीत्यनुभवेन स्मृतित्वं(त्व)स्य बाधित[144B]त्वात् / अन्यथा ज्ञानत्वेन सर्वस्मृतित्वानुमानप्रसङ्गात् / न तृतीयः, तद्भावात् / चतुर्थे तु ज्ञानमात्रं स्मरणमिति लक्षणकल्पनायां सर्वस्य ज्ञानस्य स्मृतित्वप्रसङ्गात् / तस्मान्न्यायसम्पादनावलमवलमेवेति(नायालमेवेति) तात्पर्यम् / एतेनेति / अपूर्वस्याप्रतीतपूर्वत्वेनेत्यर्थः / स्थायिकार्यमेव प्रवृत्तिनिमित्तं क्रियाकार्ये तु तद्भेदाग्रहाल्लिङ: प्रवृत्तेरित्यर्थः / -- एतदित्यत आह - न हीति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy