SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 172 * वामध्वजकृता सृङ्केतटीका दूषणं प्रतिज्ञातं निवेशयितुमाह - यत्नपदेनेति / कुतोऽप्रवृत्तिरित्याशङ्क्य प्रागुक्तविरोध इति / तदिदानी विशेषयन्नाह - तत् कस्येति तत् कस्माद् हेतोरित्यर्थः / षष्ठी हेतुप्रयोग इति हेतोः षष्ठीविधानात् / विरोधं विशदयन्नाह - न हीति / यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इत्यर्थः / अस्तु तर्हि इच्छैव कर्तृधर्मा विधिरित्याशङ्क्याह - न चेति / अत्र च असत्त्वादिति प्राक्प्रतिज्ञातमावेशयन्नाह - अपि त्वित्यादिना / 149. न च लिङेव तां जनयति / अर्थविशेषमप्रत्यायन्त्यास्तस्यास्तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात् / अनुपलब्धलिङबच्चेच्छाऽनुत्पत्तिप्रसङ्गादिति / एतेन वृद्धव्यवहाराद् व्युत्पत्तिर्भवन्ती बालस्यात्मनि प्रवृत्तिहेतुर्योऽवगतस्तमेवाश्रयेत्, स्वयं च कुर्यामिति सङ्कल्पादेवायं प्रवृत्तः, ततः स एव लिङर्थ इति निरस्तम् / कुर्यामिति प्रयत्नो वा स्यादिच्छा वा ? नाद्यः, स्वात्मनि वृत्तिविरोधात् / न द्वितीयः, सा हि सत्तयैव प्रयत्नोत्पादिनी, न च लिङः श्रुतिकाले सा सतीत्युक्तम् / फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः / अन्यविषयत्वात् / तदर्थं च शास्त्रवैयर्थ्यात् / तस्याः कारणान्तरतः एव सिद्धेः, तत्प्रतिपत्त्यर्थमपि शास्त्रानपेक्षणात्, तस्या मनोवेद्यत्वात् / अप्राप्ते च शास्त्रानवकाशात् / तदभिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात्, तदा हि यजेतेत्यस्यैव यागकर्ता स्वर्गकाम इत्यर्थः स्यात् / 149. प्रत्ययत्यागादिति निवेशयितुं भूमिमारचयति - न च लिङ्गेव तामिति / एतेनेति वृद्धव्यवहारसङ्कल्पस्यार्थे व्युत्पत्तिव्यवहारे वा तदेव प्रयोज्यवृद्धस्य प्रवृत्तिहेतुत्वेन कल्पनीयम् / व(य)तः स्वात्मनि प्रवृत्तिहेतुत्वेनावगतम् / स्वात्मनि नियमने इष्टसाधनताज्ञानं प्रवृत्तिहेतुत्वेनावगतम् / न हि सिद्धस्य पदार्थस्य इष्टसाधनतावगमः प्रवृत्तिहेतुः किन्तु इष्टसाधनासमायममर्थ(इष्टसाधनं ममायम्) इति प्रतिपत्तेरनन्तरं योऽयं कुर्यामिति सङ्कल्प उत्पद्यते तदवगमादर्ह(ह) प्रवृत्तः, अतोऽयमपि प्रवर्तमानः प्रयोजक(ज्य)वृद्धः सङ्कल्पादेव [प्रवृत्तः] इत्यनुमिनोति / त[त]श्च सङ्कल्पज्ञानं लिशब्दोच्चारणादनन्तरं जातमिति लिङ्शब्दमेव तत्करणमित्यवगच्छति / [141B] लिङ्गः सङ्कल्परूपविधिप्रतिपादकत्वमेवेति परमतमत्र निषेध्यत्वेनाभिप्रेतमिति स्वात्मनि वृत्तिविरोधादित्यनेनापि विरोध्य(ध)त इति श्लोकैकदेशो विवृत्तः / चिकीर्षारूपं सङ्कल्पं दूषयति - सा हीति / एतेन सत्त्वादिति सङ्ग्रहश्लोकांशोऽपि [वि]वृतः / न तु फलेच्छा लिङः श्रुतिकाले सती / तथा च सैव लिङर्थो भविष्यतीति मतमाशङ्क्यापाकरोति - फलेच्छा त्विति / कुत इत्यत आह - अन्यविषयत्वादिति / साधने खलु पुरुषः प्रवर्तते न फले तस्य सिद्ध्यसिद्धयोरुभयोरपि प्रवृत्तिविषयत्वानुपपत्तेवै(1)यधिकरण्येनेच्छायाः प्रवृत्तिजनकत्वेऽतिप्रसङ्गादित्यर्थः / दूषणान्तरं समुथिनो(त्थापय)ति - तदर्थं चेति / फलेच्छा खलु शास्त्रमुत्पादयेत् प्रतिपादयेद्वा ? आये तस्या इति निसर्गसुन्दरस्वर्गादिफलज्ञानादेर्वैयर्थ्यम् / द्वितीयमाशय दूषयति - तत्प्रतिपत्यर्थमपीति / किमतो यद्येवमित्यत आह - अप्राप्ते चेति / प्राप्ते त्वनवकाशादेरिति शेषः / अवकाशेऽपि वा पौनरुक्त्यलक्षणमभिधानसाङ्कर्यं प्रसज्यत इत्यादर्शयन्नाह - तदभिधाने स्वर्गकाम इति / कथमित्यत आह - तदा हीति / तच्च वैयधिकरण्येन इच्छा प्रवृत्तिं जनयतीति / 150. यदि च फलविषयैव साधनविषयं प्रयत्नं जनयेत्, अन्यत्रापि प्रसुवीत, नियामकाभावात्, हेतुफलभाव एव नियामक इति चेत् / न / अज्ञातस्य तस्य नियामकत्वे लिडं विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् / ज्ञातस्य तु तत्साधनत्वस्य नियामकत्वे तदिच्छैव तत्र प्रवर्तयतु / यो यत्
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy