SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 173 * न्यायकुसुमाञ्जलि स्तबकः 5 कामयते स तत्साधनमपि कामयत एवेति नियमात् / न च सा तदानीं सती / न च तज्ज्ञानमेव प्रयत्नजनकम्, तच्च लिङा क्रियते इति युक्तम् / स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्तिप्रसङ्गात् / लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्तेत / स्वसम्बन्धितया तदवगमस्तथा न तु सामान्यत इति चेत् / न / प्रथमपुरुषेण तदभिधाने तस्याविध्यर्थत्वप्रसङ्गात् / ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च / अपि च सङ्कल्पज्ञानात् यदि प्रयत्नो जायेत तथापि सङ्कल्पस्य कुतो जन्म किमर्थं च / सङ्कल्पज्ञानादेव, प्रयत्नार्थं चेति चेत् / नन्विच्छाविशेषः सङ्कल्पः, स तावत् सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम् ? तत्साधनत्वादेवेति चेत् / तर्हि तत्साधनत्वज्ञानात् न तु सङ्कल्पस्वरूपज्ञानाद् भवितुमर्हति इति / अन्यथेष्टसाधनताज्ञानमप्यनर्थकमापद्येत / तस्मात् सङ्कल्पः प्रवर्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण न तु ज्ञात इति नासौ विधिः / ज्ञानं च विषयोपहारेणैव व्यवहारयति इति तद्विषय एवावशिष्यते इति कर्तृधर्मव्युदासः / ___150. कस्येयमा[काङ्] क्षेत्याशङ्क्याह - यदि चेति / नियामकमाशक्यते - हेतुफलेति / फलेच्छा [प्रयत्न]मजयन्ती न सर्वत्र किन्तु फलकारण एवेति नातिप्रसङ्ग इत्यर्थः / विकल्प्य निराकरोति - अज्ञातस्येत्यादिना / तदिच्छैवेति साधनविषयेच्छैवेत्यर्थः / ननु सुखानुया ----- [142B] कथं न तत्साधनं विषय इत्यत आह - यो यदिति / सुखसाधनस्य जीवोपाधिकं सुखमस्त्येवेति भावः / अनु(स्तु) तीच्छा साधनविषया प्रयत्नजननी लिङर्थ इत्यत आह - न चेति / ननु मान ---- च्छा सती तज्ज्ञानमेव प्रवर्तकमस्तु / तच्च लिङा क्रियत इति मतमाशङ्क्यानिष्टप्रदर्शनेन निराकरोति - न चेति / सङ्कल्पविषयस्त्विति / सङ्कल्पविषयो यः सङ्कल्प्य वि - - - - - ज्ञायतामित्यर्थः / न हि सङ्कल्पज्ञानमेव सङ्कल्पस्य कारणमित्याशयः / तीति / तथा चेष्टसाधनमेव विधि: स्यात् न तु सङ्कल्पः, तेन रूपेणाप्रवर्तकत्वादित्यभिप्रायः / यश्च महाब्र--- विधिरिच्छा प्रयत्नो वा भवेत् कार्यम्, न तु त[ज्]ज्ञान[मे]वेत्यभिधायात्र विप्रतिपन्नस्य नैयायिकस्य स्तन्याभिलाषमेवाह स्तन(न्य)पाने शि[शो]रपि प्रवृत्ति(त्तेः) कारणं साक्षादक्षपादो महामुनिरित्यनेनावि[रो]ध उक्तः / तस्याविरोधमुपसंहरति - तस्मात् सङ्क्ल्पेति / ननु कर्तृधर्मेषु प्रयत्न इच्छा वा न विधिः / ज्ञानं तु भविष्यतीयत आह - ज्ञानं चेति / न हि निर्विषयं ज्ञानं प्रवर्तकम्, सर्वस्य सर्वत्र प्रवृत्तिप्रसङ्गात् / विषयविशेषावच्छिन्नत्वे तु यद्विषयोपहारेण प्रवर्तयति स एवार्थो विधिरित्यर्थः / 151. अस्तु तर्हि कर्मधर्मः / नेत्युच्यते - अतिप्रसङ्गान्न फलं नापूर्वं तत्त्वहानितः / / तदलाभान्न कार्यं च न क्रियाऽप्यप्रवृत्तितः // 12 // कर्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा ? न प्रथमः फलेच्छायाः प्रवृत्तिं प्रति अहेतुत्वात्, अतिप्रसङ्गादित्युक्तत्वात् / न द्वितीयोऽव्युत्पत्तेः / लिङो हि प्रवृत्तिनिमित्तमपूर्वत्वं वा स्यात्, उभयं वा ? न प्रथमः, शब्दप्रवृत्तिनिमित्तस्यापूर्वत्वस्य प्रमाणान्तरादवगतावपूर्वत्वव्याघातात्, अनवगतावव्युत्पत्तेः सम्बन्धिनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् / तत एवावगतावितरेतराश्रयदोषात् / न च गन्धवत्त्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् अपूर्वे प्रवर्तते लिङिति युक्तम् / तत्रोभयोरपि प्रतीयमानत्वेन सन्देहकल्पनागौरवपुरस्कारेण पृथिवीत्व एव सङ्गतिविश्रान्तेरुपपत्तेः, न
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy