________________ 171 * न्यायकुसुमाञ्जलि स्तबकः 5 न्तस्य तु कर्मवचनत्वेन तत्सम्बन्धाद् भाव्यानपेक्षणीभावेन भावकमात्रमपेक्षेत / न च कटस्य चैत्रं प्रति भावकत्वम्, विपर्ययात् / अनाप्तेन तु विवक्षायां प्रयुज्यत एव / प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि / न, नित्यसन्दिग्धत्वेन वाक्यार्थासमर्पकत्वात् / ततस्तदुपपत्तये विशेषस्य व्यञ्जनीयत्वात् / व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत् / न, अप्रयोगात् / न ह्यनाप्तेनाप्येवंप्रायाणि प्रयुज्यन्ते / लक्षणाविरोधेन कुत एतदेवेति चेत् / लोकस्यापर्यनुयोज्यत्वात् / न हि गार्गिकयेति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते / तस्य तदुपाधिनैव विहितत्वादिति चेत् / एतदेव कुतः ? लोके तथैव प्रयोगदर्शनादिति चेत् / तुल्यम् / करोतीत्यादिककर्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभिव्याहारेणैवेति किमत्र क्रियताम् / इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेन ह्येतावान् परामर्शः सर्वेषां हृदि पदमादधातीत्यभिधानानभिधानविभाग एव व्युत्पादनदशायां पेशल इति / स्यादेतत्, भवतु सर्वाख्यातसाधारणी भावना, कालविशेषसम्बन्धिनी सा लड्यद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत् / न, यत्नपदेन समानार्थत्वप्रसङ्गात् / विषयोपरागानुपरागाभ्यां विशेष इति चेत् / यागयत्नवानित्यनेन साम्यापत्तेः / इष्ट एवायमर्थ इति चेत् / न, इतो वत्सरशतेनाप्यप्रवृत्तेः / फलसमभिव्याहाराभावान्न प्रवर्तते इति चेत् / न, स्वर्गकामो यागयत्नवानित्यतोऽप्यप्रवृत्तेः / तत् कस्य हेतोः ? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणम्, अपि त्विच्छा / न च साऽपि प्रतीता यत्लजननी येन सैव विध्यर्थ इत्यनुगम्यताम्, अपि तु सत्तया / न च लिङः श्रुतिकाले सा सती / ____148. ननु यदि स्वपी(पि)ति इत्यादावाक्षिप्तेन कर्ताऽन्वयस्तदा सुप्यते इत्यादावाक्षिप्तेन. काऽन्वयोऽस्तीत्यत आह - अत एवेति / यत उभयाकाङ्क्षानिबन्धनः सम्बन्धोऽतो निराकाङ्क्षयोर्न घटत इत्यर्थः / कर्तुः कारणतयाऽन्वितस्य भावनाया निराकाक्षित्वात् / ननु तथापि भावनायास्तावद् भाव्याकाङ्क्षा नास्ति न च भाव्यमन्यदस्ति / ततः कत्रै(तँ)व केनचिद्रूपेण भाव्यो वक्तव्य इत्यत आह - न, फलेनेति / तथापि भावनायाः फलसम्बन्धितया कर्मकाङ्क्षाऽस्तीत्यत आह - फलसम्बन्धिनश्चेति / न ह्यकर्मकेषु धातुषु फलसम्बन्धि कर्मास्ति किन्तु कतैवात्र फलसम्बन्धीत्यर्थः / अभिहितादिविभागानभ्युपगमे सर्वविष्भा(शेषाभा)व लोकस्येति, यथोक्तम् - सिद्धानुगममात्रं हि कर्तुर्युक्तं परीक्षकैः / न सर्वलोकसिद्धस्य रक्षणेन निवर्तनम् // इति // उक्तं च पाणिनीयैरपि 'लब्धस्थित्यनुरोधात्तु क्वचिदाश्रीयते' इति / एतदेवाग्रे स्पश्रेष्ठयिष्यति(स्पष्टं भविष्यति) / इममेव विशेषमुररीकृत्येत्यादिना यथा वा(बा)ह्यवास्तवोऽपि प्रकृतिप्रत्ययविभागो बलाद् शिष्टप्रयोगस्तेषां [पदानां] त[त्]पदारभसनिधानेन युक्तेरिति मन्तव्यम् / यदुक्तम् - यत्नस्य सर्वाख्यातसाधारणत्वात् 'पचति' इत्यादेरपि विध्यर्थत्वप्रसङ्ग इति / तत्र समाधा]नमाशङ्कते - स्यादेतदिति / अत्र उक्ताप्रवृत्तेरिति