________________ 169 * न्यायकुसुमाञ्जलि स्तबकः 5 विपर्ययप्रसङ्गात् / 'शेषात् कर्तरि परस्मैपदम्' 'कर्तरि शब्' इत्यनुशासनबलाद् भावकर्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्याऽपि ताभ्यामन्वीयते / यस्तु प्रत्ययो न तत्रोत्पन्नः तदभिहिता सङ्ख्या तेनैव न्यायेन कर्मबलमाश्रयेदिति नियमोपपत्तेः / तस्मान्मतिकर्दममपहाय यथानुशासनमेव गृह्यते इति प्राप्तम् / एवं प्राप्तेऽभिधीयते - आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना / सङ्ख्येयमात्रलाभेऽपि साकाङ्क्षण व्यवस्थितिः // 11 // 146. भावकर्मणोरिति / 'भूयते देवदत्तेन' 'क्रियते कटकः' इत्यत्र भावकर्मणोरनुशासनबलाद् भावकर्मणी प्रत्ययवाच्ये / यस्तु भावे कर्मणि वा नोत्पन्नो यथा करोतीति तदर्थे र] भिहिता सङ्ख्या कर्तारमेवानुगच्छति / कर्तुः कारकेषु मुख्यतेति / 'अग्रा(आग्ना)वैष्णवमेकादशकपालं [चरुं] निर्वपेत्' 'अग्रा(आग्ना)सारस्वतमप्यप्रयोजयेत्' इति / अत्राग्नावैष्णवधर्मा अग्रतो भवन्त्वथ सारस्वतधर्मा इत्यनियमे प्राप्ते आग्नावैष्णवधर्मा एव प्रथमं भवन्ति / अत्र पूर्वचोदितत्वादिति हेतुः / पूर्वं ह्याग्नावैष्णवाश्चोदिता इति तस्यैव प्रथम धर्मा भवन्ति नोत्तरस्य सारस्वतस्य, तेन धर्मान्तराणां विरोधात् पूर्वधमैरेव चोत्तरस्य सिद्धेर्नोत्तरः सारस्वतः स्वधर्मान् प्रयोजयति / अस्योदाहरणं लोकवदिति / यथा लोके विवादे प्रस्तुते यत्र साक्षिद्वयं पृच्छ्यते, तत्र प्रथमः पृष्टो यदि तमर्थमनुजानाति, कामः(मं) [द्वितीयः] पृष्टश्चापलपति, तत्र प्रथमपृष्टव्यवहारेणैव व्यवहारो नोत्तरस्य, त[स्य]मुख्यत्वात् / यथा लोके मुख्यं मुखप्रक्षालेनादीति केचिदुदाहरन्ति / अत्रापि कारकेषु प्रथम कतैव चोदित इति क्रमव्यतिक्रमे प्रयोजनबाधनयोरभावादविशिष्टसङ्ख्या कर्तारमेवाश्रयत इति युक्तमित्य[139B]र्थः / तेनैव न्यायेनेति / मुख्यत्वादित्यादिन्यायेनेत्यर्थः / कर्मबलमाश्रयेदिति / तथा च व(प)च्यते देवदत्त ओदनमिति [न] स्यात् किन्तु देवदत्तेन पच्यते ओदन इत्यर्थः / यथानुशासनमिति पाणिन्यादिसूत्रेणेत्यर्थः / तेन कर्तरि विहितस्य प्रत्ययस्य कर्तृवाचकत्वे कर्मणि विहितस्य कर्मवाचकत्वमिदं स्वीकर्तव्यम् / अन्यथष्टि(था शब्द)व्यवस्थि[त्य]नुपपत्तेरित्यर्थः / अनन्यलभ्यस्य शब्दार्थत्वात् / आक्षेपलभ्यत्वे तु द(त)दनुपपत्तेः / साकाक्षि(क्ष)व्यवस्थितेश्चातिप्रसङ्गनिराकरणम् / तथा च व्यवस्थोपपद्यते इति सर्वं समञ्जसमित्याह - आक्षेपलब्ध(भ्ये) इति / नन्वेवमपि सङ्ख्याया विशेषस्तु कथं लभ्यत इत्यत आह - सङ्ख्येयमात्रेति / ___147. सङ्ख्याऽपि तावदियं भावनाऽनुगामिनी, यं यं भावनाऽन्वेति तं तं सङ्ख्याऽपीति स्थिते; एकप्रत्ययवाच्यत्वनियमात् / भावना च शुद्ध प्रातिपदिकार्थमात्रमाकाङ्क्षति / न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयत्वात्, समवायं प्रति तदनुपयोगात्, विजातीयव्यापारवतोऽकर्तृत्वाच्च / न च द्वितीयाद्याः प्रातिपदिकविभक्तयः / ततः प्रथमानिर्दिष्टेनैव भावनाऽन्वीयते इति तस्यान्वययोग्यतानियमात् सङ्ख्याऽपि तदनुगामिनी तेनैवान्वीयते इति नातिप्रसङ्गः, नञर्थवत् / यथा हि चैत्रो न गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषणविशेष्यसमभिव्याहाराविशेषेऽपि ना तदनभिधानाविशेषेऽपि नञर्थस्यविशेषणांशैरेवान्वयो न विशेष्यांशेन / ननु बाधात् तत्र तथा, न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद् भवेत्, तन्निषेधेनैव विशेषणनिषेधोपलब्धेः / उभयनिषेधे चावृत्तौ वाक्यभेदादनावृत्तौ निराकाङ्क्षत्वादिति चेत् / न, तुल्यत्वात् / समानप्रत्ययोपात्तभावनाऽऽक्षिप्तान्वयोपपत्तौ 1. मुद्रितमूले तु 'कर्म समाश्रयेत्' इति पाठः /