________________ 168 * वामध्वजकृता सृङ्केत्तटीका भिधायकत्वप्रसङ्ग इत्याह - एवमि( पचती )त्युक्ते इति / तस्यां दशायामिति / सामान्यविशेषयोरुभयोरुपलभि(ब्धिः)। प्रागभावकाले केन कस्याक्षेप इत्यतो विशेषाकाङ्क्षादर्शनात् कर्मसामान्याभिधानमेवेत्यतिप्रसज्येतेत्यर्थः / तदेवमाक्षेपतो यत्नलाभ इति पक्षं निराकृत्य यत्नाभिधानसामर्थ्यसंभव [इ]त्यभिहिते विभागबलेन प्रयत्नाभिधानप्र(म)स्तीति प्रयत्नोऽप्यभिधान(धीयता)मिति पक्षं निराकर्तुमाशङ्कते - अभिधीयतामिति / __145. एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथा, यववराहादिवदिति चेत् / न, पच्यते इत्यादावपि तथाभावप्रसङ्गात् / चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्यविरुद्धं कर्म समनुक्रामतीति चेत् / चैत्रमैत्राभ्यां शाकसूपौ पच्येते इत्यत्र का गतिः / अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेत् / न, पचतीत्यादावपि तथाभावप्रसङ्गात् / तत्र पूर्वक एव निर्णयः, पच्यते इत्यत्र त्वपर इति चेत् / न, विशेषाभावात् / आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेत् / न, पच्यते पचते पक्ष्यते इत्यादौ विप्लवप्रसङ्गादिति / दृश्यते च समानप्रत्ययाभिहितेनान्वयः सङ्ख्यायाः / तद् यथा - भूयते सुप्यते इत्यादौ / न हि तत्र का कर्मणा वा अन्येनैव वा केनचिदन्वयः किन्तु भावेनैव / अनन्वये तदभिधायिनोऽनर्थकप्रसङ्गात् / आक्षिप्तेन चान्वये तत्रापि कत्रैवान्वयापत्तेः / को हि सुप्यते स्वपितीत्यनयोः काक्षेपं प्रति विशेषः। 145. यववराहेति / 'यवमयश्चरुर्भवति' इत्यत्र दीर्घशूकस्य वाच्यतायां व्यवस्थापितस्य अन्यत्रापि 'यवैर्यजेत' इत्यत्रापि तस्यैव वाच्यतायामित्यर्थः / तथाभावप्रसङ्गादिति / आख्याताभिहितभावनायास्तत्रान्वयप्रसङ्गात् / तथा च देवदत्तेनौदनः प[138B]च्यत इति प्रयोगो न स्यात् किन्त्वोदनं पच्यते देवदत्त इति भावः / पचतीति यथा शाकसूपौ पच्येते इत्यत्र कर्मगता सङ्ख्याऽभिधीयते तथा 'देवदत्त ओदनं पचति' इत्यत्रापि कर्ज(म)गतस्यैकत्वस्याभिधानप्रसङ्गः / तत्र पूर्वक एवेति / 'शाकस्त(सू)पौदनानि पचति' इत्यत्रैकत्वस्य कर्मणि विरुद्धत्वात् कर्तृगतमेकत्वं प्रतिपाद्यत इत्यत्र पूर्वक एव निर्णयः, पच्यते इत्यत्रापरः कर्मगतमेकत्वं प्रतिपाद्यत इत्यर्थः / पचते इति / यदा वा तस्य कर्मगतैकत्वं पचते इत्यस्यापि कर्मगतैकत्वम्, नैकं प्रति प(प्र)तिपादकत्वं स्यादित्यर्थः / ननु यथाख्या[तम] भिधीयते का च, तदापि कथं सङ्ख्यायाः क; सहान्वय इत्यत आह - दृश्यते चेति / यथाहि भावोत्पन्नेनाख्यातेन भूयत इत्यादौ भावगतमेकत्वं प्रतिपाद्यते भावस्य सङ्ख्यायाश्चैकप्रत्ययाभिहितत्वात् / तथा कर्तुराख्याताभिधाने कर्तुः सङ्ख्यायाश्च समानप्रत्ययाभिहितत्वेन परस्परमन्वय इत्यर्थः / ननु कादिभिरन्वयो यदि भवेत् तदा को दोष इत्यत आह - अनन्वय इति / कादिवद् भावनयाऽप्यनन्वयेऽनन्वितमेव स्यात् / तथा च पौर्वापर्यायोगादप्रतिसम्बद्धार्थकुण्डमजाजिनमितिवदपार्थकं निग्रहस्थानमित्यर्थः / ननु भावनाक्षिप्तेनान्येन केनचिदन्वयोऽस्या भविष्यतीत्यत आह - आक्षिप्तेन चेति / यद्याक्षि[139A]प्तेन सङ्ख्याया अयं योऽभिधीयते यथा पचतीत्यत्राक्षिप्तेन का सङ्ख्यायास्तु योऽभिधीयते तथा लिङादावप्याक्षिप्तेन कत्रैवं स[]ख्याया अन्वये योऽस्त्वित्यर्थः / को हीति / आक्षेपकारणभावनाभिधानस्योभयत्राविशेषादित्यर्थः / 146. स्यादेतत्, भावकर्मणोरित्याद्यनुशासनबलात् तावत् भावकर्मणी प्रत्ययवाच्ये, ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते / यस्तु प्रत्ययो न तत्रोत्पन्नः तदभिहिता सङ्ख्या 'मुख्यं वा