________________ 146. वामध्वजकृता सृङ्केतटीका यदि चेतनस्याप्रयोजकत्वम् अचेतनस्यापि स्यात् / तथा चाकस्मिकत्वं स्यादित्यर्थः / यदि च व्यतिरेकसंदेहवशेन व्याप्तिविरहात् प्रकृतमनुमानाभासः तदा तादृशव्यतिरेकसंदेहः कार्यकारणतद्विशेषानुमानेषु कर्तुं शक्यते इति तदप्यनुमानाभास इति शङ्कोत्तराभ्यामादर्शयति - स्यादेतदित्यादिना / संप्रति प्रकारान्तरेण सं(सत्)प्रतिपक्षमभिधातुं भूमिमारचयति - नन्विति / सिद्धसाधनमभिधातुं पीठमारचयति - अपि चेति / उपाधिमाशङ्कते - किञ्चेति / यत्व(त्र) बुद्धिमत्पूर्वकत्वे साध्ये शरीरपूर्वकत्वमुपाधिरित्यत्र वाचस्पतिवचो चत(चेत्) शरीरपूर्वकत्वस्यापि बुद्धिगतकार्यत्वोपाधिप्रयुक्तत्वेन साध्यसामान्याव्यापकतयोपाधिलक्षणायोगात् करका)र्या बुद्धिः कारणतया शरीरमपेक्षते, तन्निवृत्तौ च निवर्तते / अकार्या तु बुद्धिस्तन्निवृत्तावपि न निवर्तते / तदेतन्नि(न्नो)पाधि(धिः) संभवेत् / बन्ध(बुद्धेः) नित्यप्रयत्नपूर्वकत्वे शक्यमाने प्रकृतकार्यकारण[124A]भाववैपरीत्यादनित्यप्रयत्न[पूर्व]कस्य नित्यानित्यसाधारणज्ञानमात्रपूर्वकत्वेन स्वभावप्रतिबन्धादुपाधिलक्षणायोगात् / न त्वेवं शरीरपूर्वकस्य स्व(स)म[न]न्तरकारणत्व-साध्यगतकार्यत्वाभ्यामुपाधिभ्यां साध्य एव(वा)सौ [उ]पाधित्वादित्याशयवानाह - न हीति / अयमर्थः - यथा शरीरनिवृत्तावप्यकार्या वदि(बुद्धि)र्न निवर्तते तथा अनित्यप्रयत्ननिवृत्तावप्यकार्या बुद्धिर्न निवर्तयिष्यत इति / न हि शरीरं बुद्ध्या कारणत्वेनापेक्षितं, ते(ये)न कार्यबुद्धिनिवृत्तिः शरीरनिवर्तने इति उ(यु)क्तम् / न पुनरनित्यप्रयत्नो बुद्ध्या कारणत्वेनापेक्षितो येनानित्यप्रयत्ननिवृत्तौ कार्या बुद्धिर्निवर्तते न नित्येति स्यात्, एवमपि यदि बुद्ध्या व्यापकत्वेनेति प्रयत्नोऽपीति / शरीरवदिति द्वितीयासमर्थाद्वतिः / शरीरं यथा न तथा प्रयत्नः कारणतयेत्यर्थः / तन्निवृत्तावपीति / अनित्यप्रयत्ननिवृत्तावपीत्यर्थः / अकार्या यतः अतो बुद्धिर्न निवर्तेतेत्यभिधीयतामिति / / 125. तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते / तथाहि - साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं यत् प्रसज्यते ? यदि साक्षात् प्रयत्नवदधिष्ठेयत्वं तदिष्यते एव / न च ततोऽन्यत् प्रसञ्जकमपि / अथेन्द्रियाश्रयत्वम् ? तन्न / तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात् / अनवच्छिन्ने प्रयत्ने नायं विधिः / नित्यत्वात् / अत एव नार्थाश्रयत्वम् / न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेषत्वात् / न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि / विशेषादर्शनाभावे मिथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् / तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्याविशिष्टम् / अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमप्यन्यथासिद्धम् / अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्रव्यानुद्यत्वात् तदनपेक्षमपि स्यात् / अचेतनत्वाच्चेतनाधिष्ठितमपि स्यादिति को विरोधः / 125. सोलु(ल्लु)ठं(ण्ठं) समाधिमाह - तदेतदिति / विशेषस्य विशेषमात्रं प्रति प्रयोग(ज)कत्वादित्यादिनैव / किमिदमिति / साक्षात्प्रयत्नाधिष्ठेयत्वं वा इन्द्रियाश्रयत्वं वा अर्थाश्रयत्वं वा / अत्र प्रसङ्गदशायामेव यथासंभवं दूषणमाह - यदि साक्षादिति / इष्टापादनमित्यर्थः / तथा साध्या[124B] विशिष्टतापीत्याह - न चेति / द्वितीये तु प्रयत्ननित्यत्वमात्रमिन्द्रियाश्रयस्य / साक्षात्प्रयत्नाधिष्ठेयत्रो(त्वो)पपत्तौ व्याप्तिशैथिल्यमित्याह - तदवच्छिन्नेति / साक्षात्प्रयत्नाधिष्ठेयत्वेऽपि तस्यैवेन्द्रियाश्रयत्वं, येन [यद]वच्छिन्ने आत्मनि प्रयत्नः य(त)दवच्छिन्नात्मज्ञानेनेन्द्रियकार्येण [भोगो] जनयितव्यः / अकार्यों तु ज्ञानप्रयत्नाविन्द्रियाश्रयमन्तरेणापि स्यातामिति