________________ 66] काव्यशिक्षा कर्पूरखण्डपूरिताः पात्रीः, कुङ्कुमवासभाजि भाजनानि च मणिमयानि, सहकारतैलतिम्यत्तनुखदिरकेसरजालजटिलानि चन्दनधवलपूगफलफालीदन्तुरदन्तशफरुकाणि, गुञ्जन्मधुकरकुलपीयमानपारिजातपरिमलानि [पाटलानि] पटलकानि च, सिन्दूरपात्राणि च पिष्टातकपात्राणि बाल[ल]तालम्बमानविकटवीटिकांश्च ताम्बूलवृक्षकान्बिभ्राणेनानुगम्यमानानि चरणविकुट्टनरणितमणिनू पुरमुखरदिग्मुखानि नृत्यन्ति राजकुलमागच्छन्ति समन्तात् सामन्तान्तःपुरसहस्राण्यदृश्यन्त / - शनैः शनैर्व्यजृम्भत च कचिन्नृत्तानुचितचिरन्तनशालीनकुलपुत्रलोकलास्यप्रथितपार्थिवानुरागः, कचिदन्तःस्मितक्षितिपालापेक्षितक्षीबक्षुद्रदासीकृष्यमाणराजवल्लभः, क्वचिन्मत्तकटककुट्टनीकण्ठलग्नवृद्धार्यसामन्तवृत्तनिर्भरहसितनरपतिः, क्वचित्क्षितिपाक्षिसंज्ञादिष्ट10 दुष्टदासेरगीतसूच्यमानसचिवचौर्यरतिप्रपञ्चः, क्वचिन्मदोत्कटकुट्टहारिकापरिष्वज्यमानजरत् प्रवजितजनितजनहासः, क्वचिदन्योन्यस्पर्धाधुरविटपेटि(ट)कारब्धवाच्यावाच्यवचनयुद्धः, कचिन्नृपाबलाबलात्कारनय॑माननृता(त्या)नभिज्ञान्तःपुरपालभावितभुजिष्यः, सपर्वत इव कुसुमराशिभिः, सधारागृह इव सीधुप्रपाभिः, सनन्दनवन इव पारिजातामोदैः, तुषार वारिव कर्पूररेणुभिः, साट्टहास इव पटहैः, सामृतमथ[न] इव कलकलैः, सावर्त इव 15 [रासक]मण्डलैः, सरोमाञ्च इव भूषणमणिकिरणैः, सपट्टबन्ध इव चन्दनललाटिकाभिः, सप्रसव इव प्रतिशब्दकैः, सप्ररोह इव प्रसाददानरुत्सवामोदः / / स्कन्धावलम्बमानकेसरमालाः काम्बोजवाजिन इवास्कन्दन्ततरलतारका हरिणा इवोड्डीयमानाः सगरसुता इव खनित्रैनिंदयैश्चरणाभिधातैर्दारयन्तो भुवमनेकसहस्त्रसंख्याश्चिक्रीडुयुवानः / हर्षचरिते चतुर्थोच्छ्वासे / ] मान्यव्यावर्णनकौशल्यं यथा विगतजयशब्दम्, अस्तमिततूर्यनिनादमुपसंहृतसंगीतम्, उत्सारितोत्सवम्, अप्रगीतचारणम्, अप्रसारितापणपण्यम्, स्थानस्थानेषु पवनचलनकुटिलाभिः कोटिहोमधूमलेखाभिरुल्लसन्तीभिर्यममहिषविषाणकोटिभिरिवोल्लिख्यमानम्, कृतान्तपाशवागुराभिरिव 25 वेष्टयमानम्, उपरि कालमहिषालङ्कारकालायसकिङ्किणीभिरिव च कटु कणन्तीभिर्दिवसम्, वायसमण्डलीभिभ्रमन्तीभिरावेद्यमानप्रत्यासन्नाशुभम्, कचित्प्रतिशायितस्निग्धबान्धवाराध्य मानबुध्नम्', क्वचिद्दीपिकादह्यमानकुलपुत्रकप्रसाद्यमानमातृमण्डलम्, कचिन्मुण्डोपहाराहरणोद्यतद्रविडप्रार्यमानामातृक(मदक)म्, कचिदान्ध्रोद्धियमाणबाहुवप्रोपयाच्यमान१. अन्यत्र "राध्यमानाहिर्बुधम्' इति पाठः / -20