________________ 60] काव्यशिक्षा यथा विद्यज्जालोल्लसनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लानः पथिकतरूखण्ड़े स्मरदवः // 13 // सरस्यामेतस्यामुदरवलिवीचीविलुलितं यथा लावण्याम्भो जघनपुलिनोल्लञ्चनपरम् / यथा लक्ष्मश्चायं चलनयनमीनव्यतिकर ___ स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः // 64 // पादोपजीवी यथा गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव दिनानि तिष्ठतु भवान् पश्यामि यावन्मुखम् / संसारे घटिकाप्रवाहविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः // 65 // अमरुयतक, श्लो० 1630 हंहो स्निग्धसखे विवेकबहुभिः प्रासोऽसि पुण्यैर्मया . : गन्तव्यं कतिचिदिनानि भवता चासत्सकाशात् त्वया' / व्वस न करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः // 6 // सदृशैरक्षरैः सदृशैरक्षरैः काव्यं भवेत् कर्णसुखावहम् / एकेन मध्यम प्रोक्तं द्वाभ्यां रम्यं त्रिभिस्तथा // 67 // 20 व्याख्या-तिनिर्जितवृषभः श्रीवृषभः / अन्तरमारिभिरपराजितः श्रीअजितः / उत्तीर्णभवः शम्भवः / पुण्याभिनन्दनः श्रीअभिनन्दनः / कृतसुमतिः सुमतिः / वर्णजितपद्मप्रभः पद्मप्रभः / प्रमाणोपेतपार्श्वः सुपार्श्वः / कान्त्या हेपितचन्द्रप्रभः श्रीचन्द्रप्रभः / विहितविधिः सुविधिः / अनुकम्पितभूतलः शीतलः / सुश्रेयान् श्रीश्रेयान् / जग स्पूज्यो वासुपूज्यः / गुणैर्विमलो विमलः / सम्पदानन्तः श्रीअनन्तः / प्रकटितधर्मो धर्मः। 35 कृतजगत्त्रयशान्तिः शान्तिः / कान्त्या जितदिव्यरत्नकुन्थुः श्रीकुन्थुः / गतारः श्रीअरः / सुरभिश्वासजितमल्लिः श्रीमल्लिः / सुव्रतः सुव्रतः / श्रियां नाथः श्रीनमिनाथः / कर्म 1. अत्र 'सकाशाक्वचित्' इत्यन्यत्र लब्धो पाठः समीचीनः /