________________ [ 59 . - 10 लोककौशल्यपरिच्छेदः। धनुर्वेदपरिचयो यथा-- आर्यस्योच्चभुजौघलाघववती संधानसंबन्धिनी ___ स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालतिः / निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः // 58 // [कनकजानक्याम् / ] गजलक्षणपरिचयो यथा कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवान् शङ्खच्चविराजिराज्यविभवद्वेषी निलीनेक्षणः / स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनी कानने सत्यक्तां चिरमुक्तभोगकवलः क्लेशोष्मणा शुष्यति // 59 // [कनकजानक्याम् / तुरगलक्षणपरिचयो यथा आवर्तशोभी पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः / गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यतोऽब्धिः // 60 // [अमृततरङ्गकाव्ये / ] छायोपजीवी यथा तत्त्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा / प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वापि पुनः खलानाम् // 61 // मात्सर्यतीव्रतिमिरावृतदृष्टयो ये ते कष्ट नाम न खला व्यथयन्ति चेतः / मन्ये विमुच्य गलकन्दलमिन्दुमौले __ येषां सदा वचसि वल्गति कालकूटः // 62 // पदकोपजीवी यथा यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः / 15 20 5