________________ शिक्षापरिच्छेदः। कल्पवृक्षादयः सर्वे पर्वतादौ प्रकीर्तिताः / सितौ हिमाद्रिकैलासौ शेषाः कृष्णा महीधराः // 133 // नमेरु-ब्रह्मकमले नान्यत्र तुहिनस्थलात् / लवङ्गेलात्वग्मरिचा भोगिवेष्टितचन्दनाः // 134 // कर्पूरश्चेति वर्ष्याः स्युर्नान्यत्र मलयाचलात् / रेवानिर्झरभूर्भद्रजात्युत्पत्तिविधायिनी // 135 // षट्पदी / एवं ज्ञात्वा मुहुः सम्यक् कविशिक्षा विचक्षणः / ग्रथ्नीयान्नूतनं काव्यं गुरौ विनयवामनः // 136 // इति विंशतिप्रबन्धकर्तृश्रीविनयचन्द्राचार्यसंकलितायां काव्यशिक्षायां विनयाङ्कायां प्रथमः शिक्षापरिच्छेदः // 10