________________ 24] काव्यशिक्षा चतुर्थपादे चतुर्थाक्षरे— राजा मान्यः, श्रेयोवासः, प्रख्यातोऽयम्; सूरिः श्रेयान्, विद्वत्सेव्यः, प्रज्ञावासः, भास्वान् भासा, लोकालोकः, ख्यातः कान्त्या, प्रज्ञायुक्तः / षष्ठाक्षरे-- विनयसहितः निपुणतरधीः सरसिजयशाः शशिनिभरुचा रुचिरवदनः प्रकृतिचतुरः प्रकृतिसदयः ललितगमनः सरसिजमुखः / सप्ताक्षरे-- राजसे 5 शुद्धभावैः, प्रेक्ष्यते पण्डितोऽयम्, सर्वदा शुद्धकर्मा, वीक्ष्यमाणो महद्भिः, सेवनीयः कवीन्द्रः, चन्द्रबिम्बाननश्रीः, रम्यराजीवनेत्रः, बद्धधम्मिल्लभारः, सर्वलोकोपकारी / [इति ] मन्दाक्रान्ता // शिखरिणीछन्दसि-प्रथमे पादे षष्ठाक्षरे- महाप्रज्ञाधारः, महाशीलश्लाध्यः, ___ कलानामाधारः, कलाशेषाभिज्ञः, विशालो बुद्ध्याढ्यः, क्षमाशीलोपेतः, प्रशस्यप्रज्ञो10 ऽयम् / पुनः षष्ठाक्षरे— विततसुगुणः मदनविजयी रतिपतिसमः विनयसहितः जनितसुकृतः विधुकरमुखः रविनिभमहाः जनितगरिमा / पञ्चाक्षरे- निर्मलयशाः प्रीतिसहितः पङ्कजमुखः शोभनवचाः सुन्दरगुणः सत्कविनिधिः पण्डितमहाः पावनवपुः शक्रसदृशः / द्वितीयपादे षष्ठाक्षरे---परार्थः सर्वेषाम्, स्फुरल्लोलाक्षोऽयम्, चलल्लीलाब्जाक्षः, 15 रिपूणां तेजस्वी, कृती पुंसां मध्ये, सदा मेध्याकारः, प्रभावैः सद्वीरः / पुनः षष्ठा क्षरे- विगतकलुषः, गलितदुरितः, हतमदबलः, शमयुतवपुः, हरिसमरुचिः, जनपदखलः / पञ्चमाक्षरे - वीररचि(चरि)तः निर्मदरतः गौरवपदः सद्गुणमतिः सभ्यचतुरः शस्त्रनिपुणः भद्रचरितः चारुचरितः चारुवदनः / तृतीयपादे षष्ठाक्षरे - निवासः सूरीणाम्, रिपूणां विध्वंसी, प्रशस्यः सर्वेषाम्, 20 प्रसृतिः पुण्यानाम्, शशाङ्कप्रख्योऽयम् / पुनः षष्ठाक्षरे - नृपवरनतः मृगपतिसमः जलनिधिसमः कमलवदनः सुखनिधिरयम् / पञ्चमाक्षरे- धीरचरितः वीचिसुभगः कोकिलवचाः हस्तिगमनः चारणगतिः कुञ्जरगतिः सूक्तिसरसः दानसहितः / चतुर्थपादे षष्ठाक्षरे— चकोरप्रायोऽयम्, प्रसिद्धः प्रज्ञाभिः, गुरुप्रायोवाचः, महास्त्राणां वेत्ता / षष्ठाक्षरे - जयति भृशम्, नरपतिरयम्, धनपतिरसौ, द्विजकृतनतिः, 25 प्रकटितयशाः, विनयसहितः / पञ्चमाक्षरे - भाति नियतम्, राजति सदा, द्विज (? श्री)पतिसमः, दुःसहमहाः, साधुतिलकः, सज्जनगृहम्, मान्यचरितः / [ इति ] शिखरिणी // स्रग्धराछन्दसि-प्रथमे पादे सप्ताक्षरे --- दुर्वाराशेषतेजाः, विख्यातः पुण्य भाजाम्, रक्तः सर्वस्य नित्यम्, युक्तः पापैः प्रकामम्, धर्माणामादिभूमिः / पुनः