SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 12] काव्यशिक्षा तृतीयपादेऽष्टाक्षरे- निर्माणनिर्भलतरः, आकारसुन्दरतरः, लोकोपकारचतुरः, 'दृष्टो जनेन पुरु(र)तः, संप्रेक्ष्यते प्रतिमुहुः / पुनः षष्ठाक्षरे - प्रतिभाति चन्द्रः, गगने विभाति, भुवने विभाति, परिगजितेयम्, पट एष भाति, जलदः प्रतीतः / 5 . चतुर्थपादेऽष्टमाक्षरे- अम्भोजनाशनकरः, स्वच्छप्रभाप्रकटितः, शोभासमूह सुभगः, लोकैरयं परिवृतः / पुनः षष्ठाक्षरे-जगतीतलेऽस्मिन्, घटितो विधात्रा, रचितश्च का, भुवने निकामम् // कृष्णानाम् [ अष्टमाक्षरे ] - नीलोत्पलस्य वपुषा, स्कूजत्कलापकुसुभैः, अम्भोधरद्युतिभरैः, भृङ्गावलीपिकगणैः, इन्दीवरस्फुटरुचा, कादम्बिनीरुचिचयैः / पुनः 10 सदृशादिभिः संबन्धनीयः // ___ लोहितानाम् - बन्धूकपुष्पनिकरैः बालार्करश्मिनिवहैः दात्यूहलोचनचथैः सन्ध्याप्रकाशविसरैः संतप्तकाञ्चनचयैः लाक्षारसैरभिनवैः मञ्जिष्ठरागपटलैः / पुनः सदृशादिभिः संबन्धः // पीतानाम् - चामीकरस्फुटरुचा, जाम्बूनदस्य महसा, विद्युत्प्रताननिकरैः, 15 कार्तस्वरस्य महसा, कार्तस्वरस्य किरणैः, उद्भासिचम्पकचथैः / पुनः सदृशादिभियोजनीयम् // [इति वसन्ततिलका // ] इदानीं मालिनीछन्दसि - पुनः प्रथमे पादे [अष्टमाक्षरे] - नवसरसिजजालैः विकचकुसुमयुक्तैः शशधरकरजालैः नवनलिनवितानैः विकसितघनपभैः परि30 प्रतधवलोच्चैः . मलयजरसजालैः / पुनः सप्ताक्षरे- सन्निभो लोक एषः, सन्निभोऽयं सदैव, सर्वदा तुल्यकान्ति, सर्वथैवोपमेयः, तुल्यरूपप्रकामम् , हन्ति नीकासकान्तिम्, संततं सोममूर्तिः, निर्भरोद्भासिरूपः / द्वितीयपादेऽष्टमाक्षरे - प्रसरति करभारः, स्फुरति किरणराजी, जयति करसमूहः, नवतरकरभारः, सुविमलतररश्मिः, भुवि बहुतरदीप्तिः, द्वितीयाक्षरे—तस्य 35 इत्यादि / पुनः पञ्चमाक्षरे—रम्यः प्रकामम् , काम्यो निकामम् , संश्लाघनीयः, संप्रे- / क्षणीयः / तृतीयपादेऽष्टमाक्षरे --- विकरनिकरजालैः, जनयति रतिमुच्चैः, रतिपतितनुतेजः / पुनः सप्ताक्षरे—यामिनीनाथ एषः, चन्द्रमा वक्त्रदासः, गात्रसंगी पटोऽयम्, पद्मिनीयं पुरस्तात्, वारिदोऽयं महीयान् //
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy