________________ शिक्षापरिच्छेदः / तृतीयपादे तृतीयाक्षरे—कलुषाम् कल्मषम् दुरितम् दुष्कृत MB ! तिमिरम् पापं च / पुनः पञ्चमाक्षरे—खण्डितं येन, नाशितं येन, मारितं येन,पाटितं येन, ध्वंसितं येन / चतुर्थपादे चतुर्थाक्षरे -- नीरजेन पयोदेन वारिदेन कज्जलेन अलातेन राजपट्टैः इन्दीवरैः / पुनः चतुर्थाक्षरे—समप्रभम् समद्युतिः सदोपमम् सदाप्रभम् सदानिभम् 5 सदाध्रुवम् / [इति श्लोकः] इन्द्रवज्रायाम्-प्रथमे पादे द्वितीयाक्षरे-दाने माने भिक्षुः विद्वान् / तृतीयाक्षरे—प्रसिद्धः विशुद्धः महात्मा महाधीः महाश्रीः / षष्ठाक्षरे—सुकृती जनानाम्, सुकृतां गरीयान् , यतीनां महात्मा / 10 द्वितीयपादे पञ्चमाक्षरे-धर्मप्रतानो विद्याविशेषैः शुभैर्यशोभिः / षष्ठाक्षरे-. परिराजमानः, परिशोभमानः, परिभूषितोऽयम्, सुतरामुपेतः, बृहतां महीयान् / तृतीयपादे षडक्षरे–विनाशितं येन, विदारितं येन, विखण्डितं येन / पञ्चाक्षरे--समस्तमंहः समस्तयोनिः समस्तपापम् / चतुर्थपादे पञ्चमाक्षरे— लीलारविन्दैः पयोधरौधैः साम्भःपयोदैः / पुनः 15 षडक्षरे--सदृशप्रकाशः, सदृशः सदैव, प्रतितुल्यकान्तिः, समदीप्तिजातः / [ इति ] इन्द्रवज्रा // वसन्ततिलकाछन्दसि-प्रथमे पादेऽष्टाक्षरे--प्रालेयजालमहसा नीहारनिर्मलरुचा फुल्लारविन्दनिवहै: शीतांशुदीधितिगणैः स्विद्यत्तुषारसलिलैः वर्षोपलाम्बुदजलैः कासप्रसूननिकरैः मल्लीप्रधानकुमुदैः कैलासहासकुमुदैः कैलासहासकमलैः श्रीखण्डपिण्ड- 20 विसरैः अम्भोजचन्दनचयैः कासप्रकाशविमलैः / पुनः षष्ठाक्षरे--सदृशं सदैव, सततं समानम् , सुतरां मनोज्ञम् , समकान्तिजातम् , रमणीयमेव, कमनीयकान्तिः, अविकल्पमूर्तिः, स्फुरितैकशोभम्, स्फुटरूपशोभम् / द्वितीयपादे चतुर्थाक्षरे—संप्रेक्षणम् संदर्शनम् संवीक्षणम् आलोकनम् आमोदनम् / पुनः पञ्चाक्षरे—नियतमस्य प्रकटमस्य सततमस्य प्रततमस्य निखिलमस्य / 25 पुनः पञ्चाक्षरे—मनोभिरामम् , जनाभिनन्दम्, जनप्रमोदम् , जनस्य रम्यम्, सदा प्रशस्यम् , कृतप्रमोदम् /