________________ 10] काव्यशिक्षा ... रक्तानाम्-प्रथमे पादे पञ्चाक्षरैः–बन्धूकपुष्प गैरिकद्रव किंशुकपुष्प जपाप्रसून मञ्जिष्ठाराग अलक्तरस सन्ध्यादीधिति प्रवालजाल पल्लवाङ्कुर दाडिमीपुष्प दाडिमीबीज कुङ्कुमरस कुङ्कुमद्रव तप्तकाञ्चन चञ्चत्काञ्चन चारुकाञ्चन / एवमन्येऽप्यूहनीयाः पुनर्नीकासादिभिर्योजनीयाः / इति तृतीयश्लोकोत्पत्तिः // 3 // पीतानाम्-प्रथमे पादे पञ्चाक्षरे—सुवर्णवर्ण कूष्माण्डपुष्प कर्पासपुष्प गन्धकद्रव हरितालौघ कनकद्रव हरिद्राद्रव सुपर्णपद्म हेमपङ्कज गौराङ्गीगात्र पुराणपर्ण शणप्रसून विद्युत्संचय सौदामिन्योघ कनकाम्भोज पीतपङ्कज पीतोत्पलौघ / पुनः संकासादिभिः संबन्धः // 4 // विशेषणगणः-- प्रथमे पादे चतुर्थाक्षरे - देवदत्त यज्ञदत्त विष्णुमित्र / 10 पुनश्चतुर्थाक्षरे- महाबुद्धिः प्राणाधारः महाकीर्तिः विशुद्धात्मा कृपायुक्तः दयायुक्तः जितारातिः जयत्येषः विभेत्येषः कृती नूनम् महाप्राज्ञः महातेजाः प्रसन्नात्मा / प्रसिद्धोऽयं विशेषणगणः / एवमन्येऽप्यूहनीयाः // ___द्वितीयपादे तृतीयाक्षरे—धर्मेण कृपया पुण्येन शुभेन दयया सुखेन सुकृतैः विद्यया गुणेन चक्षुषा वपुषा केशेन कलया दानेन / पुनः पञ्चाक्षरे—समलंकृतः 15 परिमार्जितः परिमण्डितः सर्वदान्वितः सुखलालितः / तृतीयपादे तृतीयाक्षरे—आनन्दः प्रमोदः संतोषः सुरभिः सुज्ञानम् सकृतम् सुपादम् / पुनः पञ्चाक्षरे -दीयते येन, धीयते येन, गीयते येन, जन्यते येन, पाल्यते येन, रा(र)ज्यते येन, प्राप्यते येन, जीयते येन, नीयते येन, पच्यते येन / चतुर्थपादे तृतीयाक्षरे--लोकानाम् प्राणिनाम् बुद्धानाम् शूराणाम् भिक्षूणाम् 30 सर्वेषाम् / पञ्चाक्षरैः-परमार्थतः, ननु निश्चितम्, खलु सर्वदा, समनन्तरम् जगतस्तले, पृथिवीतले, क्षणमात्रतः, दर्शनादिना, क्षेत्रवीक्षणात्, दृष्टिमात्रतः // प्रथमे पादे चतुर्थाक्षरे—महावीरम् / पुनश्चतुर्थाक्षरे--सदा वन्दे, प्रवन्देऽहम् , नतो नौमि, सदा स्तौमि, चिरं वन्दे, नमिस्यामि, संस्तवीमि, जिनाधीशम्, गणाधीशम्, जनाधीशम्, महात्मानम्, मुदां पात्रम्, श्रियः पात्रम्, श्रियां धाम, श्रियां 25 स्थानम्, श्रियां गेहम् / द्वितीयपादे तृतीयाक्षरे---सिंहेन मणिना गदया सहसा शिरसा / पुनः पञ्चमाक्षरे--भूषितोदरम् भावभासुरः परिराजितम् द्योतिताम्बरम् /