________________ [141 रसभावनिरूपणपरिच्छेदः / अकार्यकरणज्ञानादेवींडा वैवादिकृत् / [ सू० 19] यथा -दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः / वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लजया // 24 // [कुमारसंभव स० 8, श्लो० 11] इष्टानिष्टदर्शनादेर्जाडयं तूष्णी['भावादिकृत् / [सू० 20] यथा-एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति / सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये // 25 // . [कुमारसंभव स० 8, श्लो० 5 ] कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् / [सू० 21] यथा-व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा 10 / प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि / मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः . सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे // 26 // [उत्तररामचरित अं० 3, श्लो० 46 ] मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् / [ सू० 22 ] 15 उत्तमा-ऽधम-मध्येषु वर्ण्यते प्रथमो मदः / . द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः // 27 // यथा-सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु / गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् // 28 // [शिशुपालवध स० 10, श्लो० 16] 20 विरहार्मनस्तापो व्याधिर्मुखशोषादिकृत् / [ सू० 23 ] यथा—मनोरोगस्तीनं विषमिव विसर्पत्यविरतं. प्रमाथी निधूमं ज्वलति विधुतः पावक इव / 1. अतः परं ग्रन्थस्य पत्रे नष्टे, काव्यानुशासनादुद्धृतोऽयं सन्दर्भः / 2. सुभाषितावली, ईलो० 3280